2023-02-19 13:18:35 by ambuda-bot
This page has not been fully proofread.
हर्षचरितसंग्रहे
"
न स्पृशत्येव तेजस्विनं शोकः । स त्वं सत्त्ववतामग्रणीः प्राग्रहरः
प्राज्ञानाम्, प्रथम: समर्थानाम्, प्रष्ठोऽभिजातानाम् अग्रेसरस्ते.
जस्विनाम्, आदिरसहिष्णूनाम् । एताश्च धीरताया निवास-
शिशिरभूमयः स्वायत्ता: सुभटानामुरःकवाटभित्तयः । ततः किं
गौडाधिपेनैकेन । तथा कुरु, यथा नान्योऽपि कश्चिदेवमाचरति
भूयः । येनैव ते गतः पिता पितामहः प्रपितामहो वा, तमेव मा
इसीबिभुवनस्पृहणीयं पन्थानम् । अपहाय कुपुरुषोचितां शुचम्,
प्रतिपद्यस्व कुलक्रमागतां राजलक्ष्मीम् । देव, देवभूयं गते नरेन्द्रे,
दुष्टगौडभुजंगजग्धजीबिते च राज्यवर्धने, वृत्तेऽस्मिन्महाप्रलये
धरणीधारणाय अधुना त्वं शेषः । समाश्वासय अशरणा: प्रजाः ।
क्ष्मापतीनां शिरःसु शरत्सवितेव ललाटंतपान्प्रयच्छ पादन्यासान् "
इत्युक्त्वा व्यरंसीत् ॥
देवस्तु हर्षस्तं प्रत्यवादीत् – "करणीयमेवेद्मभिहितं मा-
न्येन । इतरथा हि मे गृहीतभुवि भोगिनाथेऽपि दायाददृष्टिरी-
र्ष्यालोर्भुजस्य । तेजोदुर्विदग्धान् अर्ककरानपि चामराणि ग्राह-
यितुमीहते हृदयम् । अपि च, हृदयविषमशल्ये मुसल्ये जीवति
जाल्मे जगद्विगर्हिते गौडाधिपाधमचण्डाले जिमि शुष्काधरपुटः
प्राग्रहरः मुख्यः । "प्रष्ठोऽग्रगामिनि" । देवस्य भावः देवभूयम् ।
जग्धं भक्षितम् । प्रलयः कल्पान्तः, नाशश्च । शेषः अवशिष्टः अनन्तश्च ।
ललाटं तपन्तीति ललाटंतपाः । "असूर्यललाटयोईशितपोः" इति खश् ।
पादः चरणः, किरणश्च । व्यरसीत् "व्यापरिभ्यो रमः" इति परस्मैप दिनो
लुङ् । मुसलं तत्प्रहारं अर्हति मुसल्यः ॥
,