This page has been fully proofread once and needs a second look.

हर्षचरितसंग्रहे
 
कमपि गौडाधिपेन मिथ्योपचारोपचितविश्वासं मुक्तशस्त्रमेका
किनं विस्रव्ब्धं स्वभवन एव भ्रातरं व्यापादितमश्रौषीत् ॥
 
४८
 
ततश्च ह
 

श्रुत्वा च महातेजस्वी सहसैव प्रजज्वाल ।
ततश्च ह इव कृतभैरवाकारः, हरिरिव प्रकटितनरसिंहरूपः, महाशीवि
इव दुर्नरेन्द्राभिभवरोषितः, तारुण्यावतार इव तेजसः, सर्वो
द्योग इव दर्पस्य, राज्याभिषेक इव रणरसस्य, परां भीषण
तामयासीत् ॥
 

अवादीच्च – "गौडाधिपमपहाय कस्तादृशं महापुरुषं मुक्त
शस्त्रं कलश- योनिमिव कृष्णवर्त्मप्रसूतिरीदृशेन सर्वलोकविगर्छिहिते
मृत्युना शमयेदार्यम् । कां नु गतिं गमिष्यति ? कस्मिन्वा नर
वेनिपतिष्यति ? श्वपाकोऽपि क इद्रमाचरेत् ? नामापि गृह्णतोऽस्य
पापकारिणः पापमलेन लिप्यत इव मे जिह्वा । केदानीं यास्यति
दुर्बुद्धिः" इति ॥
 

एतद्भिद्धत एवास्य पितुरपि मित्रं सेनापतिः, समग्र
विग्रहप्राग्रहरः, हरितालशैलावदातदेहः, प्रांशुः, गतभूयिष्ठे वयस्ि
सिवर्तमानः बहुशरशयन सुप्तोत्थितोऽपि हसन्निव शान्तनवमतिदीर्घे
णायुषा, स्थैर्यकार्कश्योन्नतिभिर- चलानपि हेह्नेपयन्निव, सहजप्रचण्ड.
तेजःप्रसरपरिस्फुरणेन सवितारमपि तृणीकुर्वन्निव, अरणिरमर्षाग्ने:
 

 
 
 
 
भैरव: भयंकरः, शिवावतारभेदश्च । नरसिंह: नरश्रेष्ट: अवतारभेदश्च

नरेन्द्रः : राजा, विषवैद्यश्च । कलशयोनिः द्रोणाचार्यः । कृष्णवर्त्मा अग्निः

स प्रसूतिः उत्पत्तिस्थानं यस्य सः धृष्टद्युम्नः । कृष्णं श्यामं दुष्टं वर्त्म मार्गः तस्य
प्रसूतिश्च । शान्तनवं भीष्माचार्यमपि ॥