This page has been fully proofread once and needs a second look.

परीक्षितोऽस्मि । अक्लेशसह इति, स्त्रीपक्षे निक्षिप्तोऽस्मि । सुखमनुभव- त्विति, त्वयैव सह तत्प्रयाति । प्रलघुपरिकरः प्रयामीति, पादरजसि कोऽतिभारः । द्वयोर्गमनम सांप्रतमिति, मामनुगृहाण गमनाज्ञया । कातरो भ्रातृस्नेह इति, सदृशो दोषः । अवञ्चितपूर्वोऽस्मि प्रसादेषु । तत्प्रसीदत्वार्यः, नयतु मामपि " इत्यभिधाय पादयोरपतत् ॥

तमुत्थाप्य पुनरग्रजो जगाद – "तात, किमेवमतिमहारम्भपरिग्रहेण गरिमाणमारोप्यते बलादतिलघीयानप्यहितः । हरिणार्थमतिह्नेपण: सिंहसंभारः । तृणानामुपरि कति कवचयन्ति आशुशुक्षणय: । अपि च, तवाष्टादशद्वीपा मेदिन्यस्त्येव विक्रमस्य विषयः । न हि कुलशैलनिवह- वाहिनो वायवः संनह्यन्त्यतितरले तूलराशौ । तिष्ठतु भवान्" इत्यभिधाय तस्मिन्नेव वासरे निर्जगाम अभ्यमित्रम् ॥

अथ तथागते भ्रातरि, उपरते च पितरि, प्रोषितजीविते च जामातरि, मृतायां च मातरि, संयतायां च स्वसरि, स्वयूथभ्रष्ट इव वन्यः करी देवो हर्षः कथं कथमप्यकाकी कालं तमनैषीत् ॥

अतिक्रान्तेषु च बहुषु वासरेषु, कदाचित् आस्थानगतः सहसैव प्रविशन्तम्, अनुप्रविशता विषण्णवदनेन लोकेनानुगम्यमानम्, नासावंशस्याग्रे ग्रथितदृष्टिं कुन्तलं नाम बृहदश्ववारं राज्यवर्धनस्य प्रसादभूमिं ददर्श । तस्माश्च हेलानिर्जितमालवानी-