This page has been fully proofread once and needs a second look.

षष्ठोच्छ्वासः ।
 
परीक्षितोऽस्मि । अक्लेशसह इति, स्त्रीपक्षे निक्षिप्तोऽस्मि । सुख-
मनुभव- त्विति, स्त्रत्वयैव सह तत्प्रयाति । प्रलघुपरिकरः प्रयामीति,
पादरजसि कोऽतिभारः । द्वयोर्गमनम सांप्रतमिति,
मामनुगृहाण गमनाज्ञया । कातरो भ्रातृस्नेह इति, सदृशो दोषः ।
अवश्ञ्चितपूर्वोऽस्मि प्रसादेषु । तत्प्रसीदत्वार्यः, नयतु मामपि "
इत्यभिधाय पादयोरपतत् ॥
 
मामनु-
-
 

तमुत्थाप्य पुनरप्ग्रजो जगाद – "तात, किमेवमतिमहा-
रम्भपरिग्रहेण गरिमाणमारोप्यते बलादतिलघीयानप्यहितः ।
रिणार्थमतिहेह्नेपण: सिंहसंभारः । तृणानामुपरि कति कवचयन्ति
-
आशुशुक्षणय: । अपि च, तवाष्टादशद्वीपा मेदिन्यस्त्येव विक्र-
मस्य विषयः । न हि कुलशैलनिवह- वाहिनो वायवः संनयन्त्य-
ह्यन्त्यतितरले तूलराशौ । तिष्ठतु भवान्" इत्यभिधाय तस्मिन्नेव वासरे
निर्जगाम अभ्यमित्रम् ॥
 
M
 

अथ तथागते भ्रातरि, उपरते च पितरि, प्रोषितजीविते
च जामातरि, मृतायां च मातरि, संयतायां च स्वसरि, स्वयूथ-
भ्रष्ट इव वन्यः करी देवो हर्षः कथं कथमध्येप्यकाकोकी कालं
तमनैषीत् ॥
 

अतिक्रान्तेषु च बहुषु वासरेषु, कदाचित् आस्थानगतः
सहसैव प्रविशन्तम्, अनुप्रविशता विषण्णवदनेन लोकेनानु-
गम्यमानम्, नासावंशस्यामे प्ग्रे ग्रथितदृष्टिं कुन्तलं नाम बृहदश्ववारं
राज्यवर्धनस्य प्रसादभूमिं ददर्श । तस्माश्च हेलानिर्जितमालवानी-
d