This page has been fully proofread once and needs a second look.

कालायसनिगडयुगलचुम्बितचरणा चौराङ्गनेव संयता कान्यकुकारायां निक्षिप्ता । किंवदन्ती च, यथा किल–अनायकं साधमत्वा जिघृक्षुः स दुर्मतिरेतामपि भूमिमाजिगमिषति इति विज्ञापिते प्रभुः प्रभवति" इति ॥

ततश्च तादृशमनुपेक्षणीयमसंभावितमाकस्मिकमपरं व्यतिकरमाकर्ण्य, अश्रुतपूर्वत्वात्परिभवस्य, परपरिभवासहिष्णुतया स्वभावस्य, दर्पबहुलतया च नवयौवनस्य, कृपाभूमिभूतायाः स्वसुः स्नेहात्, स तादृशोऽपि बद्ध- मूलोऽपि अत्यन्तगुरुरेकप यवास्य ननाश शोकावेगः । विवेश च हृदयं भयंकरः कोपावेग: अनुजमवादीञ्च– "आयुष्मन्, इदं राजकुलम्, अमी बान्धवा परिजनोऽयम्, इयं भूमिः, एताः प्रजाः । गतोऽहमद्यैव मालव
कुलप्रलयाय । इदमेव तावद्वल्कलग्रहणम् इदमेव तपः, शोका
गमोपायश्चायमेव, यत् अत्यन्ताविनीतारिनिग्रहः । सोऽयं कुरङ्गकैः कचग्रहः केसरिणः, भेकै: करपातः कालसर्पस्य, तिमिस्तिरस्कारो रवेः, यो मालवैः परिभवः पुष्पभूतिवंशस्य । अन्तरितस्तापो मे महीयसा मन्युना । तिष्ठन्तु सर्व एव राजानः करिणश्च त्वयैव सार्धम् । अयमेको भण्डिरयुतमात्रेण तुरङ्गमाणामनुयातु माम् " इत्यभिधाय चानन्तरमेव प्रयाणपटहमादिदेश ॥
 
तं च तथा समादिशन्तमाकर्ण्य, निवर्तनादेशेन दूरप्ररूढप्रणयपीड : प्रोवाच देवो हर्ष:- "कमिव दोषं पश्यति आयोममानुगमने ? यदि बाल इति, नितरां तर्हि न त्याज्योऽस्मि रक्षणीय इति, भवद्भुजपञ्जरं रक्षास्थानम् । अशक्त इति,