This page has been fully proofread once and needs a second look.

हर्षचरित संग्रहे
 
·
कालाय सनिगडयुगलचुम्बितचरणा चौराङ्गनेव संयता कान्यक्कु
कारायां निक्षिप्ता । किंवदन्ती च, यथा किल–अनायकं साध
मत्वा जिघृक्षुः स दुर्मतिरेतामपि भूमिमाजिगमिषति इति
विज्ञापिते प्रभुः प्रभवति" इति ॥
 

ततश्च तादृशमनुपेक्षणीयमसंभावितमाकस्मिकमपरं व्य
तिकरमाकर्ण्य, अश्रुतपूर्वत्वात्परिभवस्य, परपरिभवासहिष्णुतया
स्वभावस्य, दर्पबहुलतया च नवयौवनस्य, कृपाभूमिभूतायाः
-
स्वसुः स्नेहात्, स तादृशोऽपि बद्ध- मूलोऽपि अत्यन्तगुरुरेकप
"
यवास्य ननाश शोकावेगः । विवेश च हृदयं भयंकरः कोपावेग:
अनुजमवादीञ्च– "आयुष्मन्, इदं राजकुलम्, अमी बान्धवा
परिजनोऽयम्, इयं भूमिः, एताः प्रजाः । गतोऽहमद्यैव मालव

कुलप्रलयाय । इदमेव तावद्वल्कलग्रहणम् इदमेव तपः, शोका

गमोपायश्चायमेव, यत् अत्यन्ताविनीतारिनिग्रहः । सोऽयं कु
रङ्गकैः कचप्ग्रहः केसरिणः, भेकै: करपातः कालसर्पस्य, तिमि
"
स्तिरस्कारो रवेः, यो मालवैः परिभवः पुष्पभूतिवंशस्य । अन्त
रितस्तापो मे महीयसा मन्युना । तिष्ठन्तु सर्व एव राजानः करि
ञ्श्च त्वयैव सार्धम् । अयमेको भण्डिरयुतमात्रेण तुरङ्गमाणामन्
नुयातु माम् " इत्यभिधाय चानन्तरमेव प्रयाणपटहमादिदेश ॥
 

 
तं च तथा समादिशन्तमाकर्ण्य, निवर्तनादेशेन दूरप्ररूढ
 
प्रणयपीड : प्रोवाच देवो हर्ष:- "कमिव दोषं पश्यति आ
योममानुगमने ? यदि बाल इति, नितरां तर्हि न त्याज्योऽस्मि
-
रक्षणीय इति, भवद्भुजपञ्जरं रक्षास्थानम् । अशक्त इति,
 
:
 
...
 
*