This page has been fully proofread once and needs a second look.

षष्ठोच्छवासः ।
 
येत ? कथमिव संभावितमत्यन्तमनुचितमिदमार्येण ? किं वास्य

चेतसश्च्युतः सौमित्रिः, विस्मृता वा वृकोदरप्रभृतयः । किं
वा ममानेन वृथा बहुधा विकल्पितेन । तूष्णीमेवार्यमनुगमि-
ध्
ष्यामि । गुरुवचनातिक्रमकृतं च किल्बिषमेतत्तपोवने तप एवा--
पास्यति" इत्यवधार्य, मनसा प्रथमतरं गतस्तपोवनमधोमुख-
स्तूष्णीमवातिष्ठत ॥
 
४५
 

अत्रान्तरे पूर्वादिष्टेनैव रुदता वस्त्रकर्मान्तिकेन समुप
स्थापितेषु वल्कलेषु, रटति राजस्खैत्रैणे, तारमब्रह्मण्यम् ऊर्ध्वदोष्णि
विरुवति विप्रजने, पादप्रणति परे फूत्कुर्वति पौरवृन्दे, निराशेषु
निःश्वसत्सु सामन्तेषु, सबालवृद्धासु तपोवनाय प्रस्थितासु
सर्वासु प्रजासु, सहसैव प्रविश्य शोकविकुक्लबः प्रक्षरितनयन--
सलिलो राज्यश्रियः परिचारकः संवादको विमुक्ताक्रन्द: सदस्या-
त्मानमपातयत् ॥
 

अथ संभ्रान्तो राज्यवर्धनस्तं पर्यपृच्छत् – "भद्र, भण
भण किमपरमधिक- तरमितः समुपनयति विधि: " इति । स कथं
कथमध्प्यकथयत् "देव, पिशाचानामिव नीचात्मनां चरितानि
छिद्रप्रहारीणि प्रायशो भवन्ति । यस्मिन्नहन्यवनिपतिरुपरत इत्य-
भूद्वार्ता, तस्मिन्नेव देवो ग्रहवर्मा दुरात्मना मालवराजेन जीव-
लोकमात्मनः सुकृतेन सह त्याजितः । भर्तृदारिकापि राज्यश्रीः
 
mag
 

 
 
 
वृकोदर : भीमसेनः । कर्मणः अन्तः अस्मिन् अस्तीति कर्मान्तिकः

भृत्यः । ब्रह्मणि साधु ब्रह्मण्यम्, न ब्रह्मण्यम् अब्रह्मण्यम् । "अब्रह्मण्यम
वथ्
-
वच्
यो कौक्तौ " इत्यमरः ॥
 
4