This page has been fully proofread once and needs a second look.

हृदयो देवो हर्षः समचिन्तयत् – "किं नु खलु मामन्तरेणार्य केनचिद- सहिष्णुना किंचिद्ग्राहितः कुपितः स्यात् ? उतानया दिशा परीक्षितकामो माम् ? उत शोकजन्मा चेतसः समाक्षेपोऽयमस्य ? आहोस्वित् आर्य एवायं न भवति ? किं वार्येणान्य देवाभिहितम्, अन्यदेवाश्रावि मया शोकशून्येन श्रवणेन्द्रियेण ? आर्यस्य वान्यदेव विवक्षितम्, अन्यदेवापतितं मुखात्? अथवा सकलवंशविनाशाय निपातनोपायोऽयं विधेः ? मम वा निखिलपुण्य परिक्षयोपक्षेपः कर्मणाम् ? येनायं यः कश्चिदिव यत्किंचनकारिणं मामपुष्प- भूतिवंशसंभूतमिव अताततनयमिव अनात्मानुजमिव अभक्तमिव दृष्टदोषमिव, श्रोत्रियमिव सुरापाने, सद्भृत्यमिव स्वामिद्रोहे, सज्जनमिव नीचोपसर्पणे, अतिदुष्करे कर्मणि समादिष्टवान् । तदेतत्तावदनुरूपम्, यत्तादृशि पितरि मृते तपोवनं वा गम्यते, वल्कलानि वा गृह्यन्ते, तपांसि वा सेव्यन्ते । या तु मयि राज्याज्ञा, सा दग्धेऽपि दाहकारिणी मय्यवग्रहग्लपिते
धन्वनीवाङ्गारवृष्टिः । तद्सदृशमिदमार्यस्य । यद्यपि च विभुरनभिमानः, द्विजातिरनेषणः, मुनिररोषणः, कपिरचपलः, कविरमत्सरः, साधुरदरिद्रः, अमात्यः सत्यवादी, राजसूनुरदुर्विनीतश्च जगति दुर्लभः ; तथापि ममार्य एवाचार्य: । को हि नाम तद्विधे निपतिते जनयितरि, ईदृशे च व्यक्तराज्ये भ्रातरि ज्यायसि तपोवनं गच्छति, मृद्गोलकं वसुधाभिधानं चण्डालोऽपि काम-
 
 
 
 
अन्तरेण उद्दिश्य । "श्रोत्रियनु छन्दोऽधीते" । अवग्रहः वर्षाभावः ।
धन्वा मरुप्रदेशः । एषणा अभिलाषः ॥