This page has not been fully proofread.

हर्षचरितसंग्रहे
 
हृदयो देवो हर्षः
 
समचिन्तयत् – "किं नु खलु मामन्तरेणार्य
 
?
 
केनचिदसहिष्णुना किंचिद्राहितः कुपितः स्यात् उतानया
दिशा परीक्षितकामो माम् ? उत शोकजन्मा चेतसः समाक्षेपो
यमस्य ? आहोस्वित् आर्य एवायं न भवति ? किं वार्येणान्य.
देवाभिहितम्, अन्यदेवाश्रावि मया शोकशून्येन श्रवणेन्द्रियेण ?
आर्यस्य वान्यदेव विवक्षितम्, अन्यदेवापतितं मुखात्
? अथव।
सकलवंशविनाशाय निपातनोपायोऽयं विधेः ? मम वा निखिल
पुण्यपरिक्षयोपक्षेपः कर्मणाम् ? येनायं यः कश्चिदिव यत्किंचन-
कारिणं मामपुष्पभूतिवंश संभूतमित्र अताततनयमिव अनात्मानुज-
मिव अभक्तमिव दृष्टदोषमिव, श्रोत्रियमिव सुरापाने, सत्यवि
स्वामिद्रोहे, सज्जनमिव नीचोपसर्पणे, अतिदुष्करे कर्मणि समा-
दिष्टवान् । तदेतत्तावद्नुरूपम् यत्तादृशि पितरि मृते तपोवनं
वा गम्यते, वल्कलानि वा गृह्यन्ते, तपांसि वा सेव्यते । या
तु मयि राज्याज्ञा, सा दग्धेऽपि दाहकारिणी मय्यवग्रहग्लपिते
धन्वनीवाङ्गारवृष्टिः । तद्सदृशमिदमार्यस्य । यद्यपि च विभुर-
नभिमानः, द्विजातिरनेषणः, मुनिररोषणः, कपिरचपलः, कवि-
- रमत्सरः, साधुरदरिद्रः, अमात्यः सत्यवादी, राजसूनुरदुर्विनी-
तश्च जगति दुर्लभः ; तथापि ममार्य एवाचार्य: । कोहि नाम
तद्वनिपतिते जनयितरि, ईदृशे च व्यक्तराज्ये भ्रातरि ज्यायसि
तपोवनं गच्छति, मृद्गोलकं वसुधाभिधानं चण्डालोऽपि काम-
४४
 
अन्तरेण उद्दिश्य । "श्रोत्रियनु छन्दोऽधीते" । अवग्रहः वर्षाभावः ।
धन्वा मरुप्रदेशः । एषणा अभिलाषः ॥