This page has been fully proofread once and needs a second look.

विधिविधानोपनतनैर्घृण्यमिदं किमपि बिभणिषति मे हृदयम् । नालम्बनीया बालभावसुलभा वामता । वैधेय इव मा कृथाः. प्रत्यूहमीहितेऽस्मिन् । न खलु न जानासि लोकवृत्तम् । लोकत्रयत्रातरि मांधातरि मृते किं कृतं पुरुकुत्सेन, भ्रूलतादिष्टाष्टादशद्वीपे दिलीपे वा रघुणा, महासुरसमरमध्या ध्यासितत्रिदशरथे दशरथे वा रामेण, गोष्पदीकृतचतुरुदन्वदन्ते दुष्यन्ते वा भरतेन । यं च किल शोकः समभिभवति, तं कापुरषमाचक्षते शास्त्रविदः ।
स्त्रियो हि विषयः शुचाम् । तथापि किं करोमि स्वभावस्य । सेयं कापुरुषता वा स्त्रैणं वा, यदेवमास्पदं पितृशोकहुतभुजो जातोऽस्मि । मम हि प्रनष्टः प्रज्ञालोकः, प्रज्वलितं हृदयम्, नोपसर्पति विवेकः, मुह्यति मतिः । न शक्नोति मे हृदयं तादृशस्य सुमेरुकल्पस्य महापुरुषस्य विनिपातमश्रुभिरेव केवलैरतिवाहयितुम् । सोऽहमिच्छामि मनसि वाससीव सुलभं स्नेहमलमिदं अमलैः शिखरिशिखरप्रस्रवणस्वच्छस्रोतोम्बुभिः क्षालयितुमाश्रमपदे । अतस्त्वमनभिमतामपि जरामिव पूरुराज्ञया गुरोर्गृहाण मे राज्यचिन्ताम् । त्यक्तसकलबालक्रीडेन हरिणेव दीयतामुरो लक्ष्म्यै । परित्यक्तं मया शस्त्रम्" इत्येवमभिधाय, खड्गग्राहिणो हस्तादादाय निजं निस्त्रिंशम् उत्ससर्ज घरण्याम् ॥

अथ तच्छ्रुत्वा निशितशिखेन शूलेनेवाहतः प्रविदीर्ण-
 

 
 
 
कुत्सितः पुरुषः कापुरुषः । "विभाषा पुरुषे" इति कादेशः। स्त्रियो भाव: कर्म वा स्रैणम् । स्नेहः प्रेम, तैलं च । त्रिंशतः अङ्गुलिभ्यः निर्गतः निस्त्रिंशः खड्गः ॥