This page has been fully proofread once and needs a second look.

अपथेन प्रज्ञाप्रयत्नानाम् अगोचरेण सुहृदनुरोधानाम् अभूमिभूतेन कालक्रमापचयानां शोकेन कबलीकृतं ज्येष्ठं भ्रातरमपश्यत् ॥

अथ दूरादेव दृष्ट्वा देवो राज्यवर्धनः चिरकालकलितं बाष्पवेगं मुमुक्षुः,
सुदूरप्रसारितेन दोर्दण्डद्वयेन गृहीत्वा कण्ठे भ्रातरम्, मुक्तकण्ठं रुरोद । सुचिराञ्च कथं कथमपि निर्वृष्टनयनजल: पर्जन्य इव शरदि स्वयमेवो- पशशाम । तूष्णीमेवच चिरं स्थित्वा उत्थाय स्नानभूमिमगात् । तस्यां च स्थित्वा मौलिमनादरान्निष्पीड्य चतुःशालवितर्दिकायां पर्यङ्किकायां निपत्य
जोषमस्थात् । देवोऽपि हर्षस्तथैव स्नात्वा अदूर एवास्य तूष्णीमेव समवातिष्ठत । दृष्ट्वा दृष्ट्वा दूयमानमानसमग्रजन्मानं समस्फुटदिवास्य सहस्रधा हृदयम् ॥

औरसदर्शनं हि यौवनं शोकस्य । लोकस्य तु नरपतिमरणदिवसादपि दारुणः स बभूव दिवसः । सर्वस्मिन्नेव नगरे न केनचिदस्नायि, न केनचिदपाचि, न केनचिदभोजि ; सर्वत्र सर्वेणारोदि । केवलमनेन क्रमेणातिचक्राम दिवसः ॥

स चापरपारावारपयसि ममज मञ्जिष्ठारुणोऽरुणसारथिः । अकाशत चाकाशे शशाङ्कमण्डलम् । अस्यां च वेलायामनतिक्रमणीयवचनैरुपसृत्य प्रधानसामन्तैर्विज्ञाप्यमानः कथं कथमप्यभुक्त ॥
प्रभातायां च शर्वर्याम्, सर्वेषु प्रविष्टेषु राजसु, समीपस्थितं हर्षदेवमुवाच – "तात, भूमिरसि गुरुनियोगानाम् । शैशव एवाग्राहि भवता तातस्य चित्तवृत्तिः । भवन्तमेवंविधं विधेयं
 
 
 

अपचय: ह्रासः ॥