This page has not been fully proofread.

हर्षचरितसंग्रहे
 
अपथेन प्रज्ञाप्रयत्नानाम् अगोचरेण सुहृदनुरोधानाम् अभूमिभूतेन
कालक्रमापचयानां शोकेन कबलीकृतं ज्येष्ठं भ्रातरमपश्यत् ॥
 
४२
 
अथ दूरादेव दृष्ट्वा देवो राज्यवर्धनः चिरकालकलित
बाष्पवेगं मुमुक्षुः, सुदूरप्रसारितेन दोर्दण्डद्वयेन गृहीत्वा कण्ठे
भ्रातरम्, मुक्तकण्ठं रुरोद । सुचिराञ्च कथं कथमपि निर्वृष्ट-
नयनजल: पर्जन्य इव शरदि स्वयमेवोपशशाम
 
तूष्णीमेक
 
C
 
च चिरं स्थित्वा उत्थाय स्नानभूमिमगात् । तस्यां च स्थित्वा
मौलिमनादरान्निष्पीड्य चतुःशालवितर्दिकायां पर्यङ्किकायां निपत्य
जोषमस्थात् । देवोऽपि हर्षस्तथैव स्नात्वा अदूर एत्रास्य तूष्णी-
मेव समवातिष्ठत । दृष्ट्वा दृष्ट्वा दूयमानमानसमग्रजन्मानं
समस्फुटदिवास्य सहस्रधा हृदयम् ॥
 
औरसदर्शनं हि यौवनं शोकस्य । लोकस्य तु नरपतिमरण-
दिवसादपि दारुणः स बभूव दिवसः । सर्वस्मिन्नेव नगरे न
केनचिदस्नायि, न केनचिदपाचि, न केनचिदभोजि ; सर्वत्र सर्वे..
णारोदि । केवलमनेन क्रमेणातिचक्राम दिवसः ॥
 
स चापरपारावारपयसि ममज मञ्जिष्ठारुणोऽरुणसारथिः ।
अकाशत चाकाशे शशाङ्कमण्डलम् । अस्यां च वेलायामनतिक्रम-
णीयवचनरुपसृत्य प्रधान सामन्तैर्विज्ञाप्यमानः कथं कथमध्यमुक्त ॥
 
प्रभातायां च शर्वर्याम्, सर्वेषु प्रविष्टेषु राजसु, समीपस्थितं
हर्षदेवमुवाच –"तात, भूमिरसि गुरुनियोगानाम् शैशव
-
एवाग्राहि भवता तातस्य चित्तवृत्तिः । भवन्तमेवंविधं विधेयं
 
अपचय: हासः ॥