This page has been fully proofread once and needs a second look.

॥ षष्ठ उच्छ्रासः ॥
 
अथ प्रथमप्रेतपिण्डभुजि भुक्ते द्विजन्मनि, गतेष्वाशौचदिवसेषु, दीयमाने द्विजेभ्यो नृपोपकरणकलापे, नीतेषु तीर्थस्थानानि कीकसेषु, क्रमेण च मन्देष्वाक्रन्देषु विश्राम्यत्यश्श्रुणि, कृतेषु कविरुदितकेषु, देवो हर्षः कदाचिदुत्सृष्टसकलव्यापारः, पुञ्जीभूतवृद्धबन्धुवर्गाग्रेसरेण अवनतमूक- मुखेन महाजनेन मौलेनाकाले आत्मानं वेष्ट्यमानमद्राक्षीत् । दृष्ट्वा चाकरोन्मनसि—"क्रिमन्यत् ? आर्यमागतमावेदयत्ययं शोकपराभूतो लोकाकरः" इति । चेपमानहृदयश्च पप्रच्छ प्रविशन्तमन्यतमं पुरुषम्- अङ्ग,
कथय, किमार्यः प्राप्तः " इति । स मन्दमब्रवीत् – "देव, यथादिशसि, द्वारि " इति ॥

अनन्तरं च द्वारपालमुक्तेन प्रथमप्रविष्टेन परिजनेनेवाक्रन्देन कथ्यमानम्, प्रथीयसा वाष्पपयःप्रवाहेण महीमनवरतं सिञ्चन्तम्, क्रीतमिव ऋशिम्ना, मूकीकृतमिव मौनेन, पिष्टमिवपीडया, विधृतमिव वैराग्येण, अवज्ञातमिव प्रज्ञया, अबाध्येन वृद्धबुद्धीनाम् असाध्येन साधुभाषितानाम् अगम्येन गुरुगिराम्
 
 
 
 

भुक्ते भुक्तवति, बाहुलकात् कर्तरि क्तः । आशौचम् अशुचेर्भावः ।कीकसानि अस्थीनि । अग्रे सरतीति अग्रेसर: । "पुरोऽप्रतोऽग्रेषु सर्ते : " इति टः । मूलात् आगतो मौलः, परंपरागत इत्यर्थः । आकर: समूहः ।
अङ्ग भोः । पृथुः प्रथीयान् प्रथिष्ठः । कृशस्य भावः ऋशिमा ॥