This page has not been fully proofread.

॥ षष्ठ उच्छ्रासः ॥
 
अथ प्रथमप्रेत पिण्डभुजि भुक्ते द्विजन्मनि, गतेष्वाशौचदि-
वसेषु, दीयमाने द्विजेभ्यो नृपोपकरणकलापे, नीतेषु तीर्थस्थानानि
कीकसेषु क्रमेण च मन्देष्वाकन्देषु विश्राम्यत्यश्रणि, कृतेषु
कविरुदितकेषु, देवो हर्षः कदाचिदुत्सृष्टसकलव्यापारः, पुञ्जीभूत-
वृद्धबन्धुवर्गाग्रेसरेण अवनतमूकमुखेन महाजनेन मौडेनाकाले
आत्मानं वेष्ट्यमानमद्राक्षीत् । दृष्टा चाकरोन्मनसि—"क्रिम
न्यत् ? आर्यमागतमावेदयत्ययं शोकपराभूतो लोकाकरः" इति ।
चेपमानहृदयश्च पप्रच्छ प्रविशन्तमन्यतमं पुरुषम्
कथय, किमार्यः प्राप्तः " इति । स मन्दमब्रवीत् – "देव, यथा-
दिशसि, द्वारि " इति ॥
 
_____" अङ्ग,
 
अनन्तरं च द्वारपालमुक्तेन प्रथमप्रविष्टेन परिजनेनेवाक्र-
न्देन कथ्यमानम्, प्रथीयसा वाष्पपयःप्रवाहेण महीमनवरतं
सिञ्चन्तम्, क्रीतमिव ऋशिम्ना, मूकीकृतमिव मौनेन, पिष्टमिव
पीडया, विवृतमिव वैराग्येण, अवज्ञातमिव प्रज्ञया, अबाध्येन
वृद्धबुद्धीनाम् असाध्येन साधुभाषितानाम् अगम्येन गुरुगिराम्
 
कीकसानि
इति टः ।
 
भुक्ते भुक्तवति, बाहुलकात् कर्तरि क्तः । आशौचम् अशुचेर्भावः ।
अस्थीनि । अग्रे सरतीति अग्रेसर: । "पुरोऽमतोऽग्रेषु सर्ते : "
मूलात् आगतो मौलः, परंपरागत इत्यर्थः । आकर समूहः ।
अ भोः । पृथुः प्रथीयान् प्रथिष्ठः । कृशस्य भावः ऋशिमा ॥