This page has been fully proofread once and needs a second look.

देवमपि हर्ष पितृशोकविह्वलीकृतम् ,श्रियं शाप इति, महीं महापातकमिति, राज्यं रोग इति, भोगान् भुजंगा इति, निलयं निरय इति, बन्धुं बन्धनमिति, जीवितम् अयश इति, देहं द्रोह इति, कल्यतां कलङ्क इति, आयु: अपुण्य फलमिति, आहारं विषमिति, विषम् अमृतमिति, हृदयस्फुटनम् अभ्युदय इति च मन्यमानम्, सर्वासु क्रियासु विमुखम्, ग्राह्यगिरो गुरवः, श्रुतिस्मृतीति हासविशारदाञ्च जरद्द्विजातयः, यथावधिगतात्मतत्त्वाश्च मस्करिणः, सम- दुःखसुखाश्च मुनयः, संसारासारत्वकथनकुशला ब्रह्मवादिनः, शोकापनयन निपुणाश्च पौराणिकाः पर्यवारयन् ॥

अनुनीयमानश्च तैः कथं कथमप्याहारादिकासु क्रियास्वाभिमुख्यमभजत । भ्रातृगतहृदयश्चाचिन्तयत् – " अपि नाम तातस्य मरणमुपश्रुत्य आर्यो बाष्प- जलस्नातो न गृह्णीयाद्वल्कले ? नाश्रयेद्वा राजर्षिराश्रमपदम् ? न विशेद्वा पुरुषसिंहो गिरिगुहाम् ? अनित्यतया जनितवैराग्यो वा न निराकुर्यादुप-
सर्पन्ती राज्यलक्ष्मीम् ? इहागतो वा राजभिरभिधीयमानो न पराचीनता- माचरेत् ? अतिपितृपक्षपाती खल्वार्य : " इत्येतानि चान्यानि च चिन्तयन्
दर्शनोत्सुकहृदयो भ्रातुरागमनम् दीक्षमाणः कथं कथमप्यतिष्ठत् ॥
 
इति भट्टबाणवरचिते हर्षचरिते महाराजमरणवर्णनं
नाम पञ्चम उच्छवासः