This page has been fully proofread once and needs a second look.

महापुरुषनिर्माणपरमाणून्परमेष्ठी । शून्याः संवृत्ता दश दिशो गुणानाम् । जगज्जातमन्धकारं धर्मस्य । निष्फलमधुना जन्म शस्त्रोपजीविनाम् । अपि नाम स्वप्नेऽपि दृश्येत दीर्घरक्तनयनं पुनस्तन्मुखसरोजम् ? जन्मान्तरेऽपि पुनः परिष्वज्येत तद्भुजयुगलम् ? लोकान्तरेऽपि 'पुत्र' इत्यालपतः श्रूयेत सा सुधारसमुद्गिरन्ती भारती ?" इत्येतानि चान्यानि च चिन्तयत एवास्य
कथमपि सा क्षयमियाय यामिनी ॥

ततः शुचेव मुक्तकण्ठमारटत्सु कृकवाकुकुलेषु, तनूभूतेतमसि पतितयूथप इव वनगजयूथे कक्ष्यान्तरवर्तिनि पितृपरिजने, विषादिनि उपरिरुदन्नि- षादिनि च स्तम्भनिषण्णे निस्पन्दमन्दे राजकुञ्जरे, मन्दुरापालकाक्रन्द- कथिते चाजिरभाजि राजवाजिनि, विश्रान्तजयशब्दकलकले च शून्ये महास्थानमण्डपे, दह्यमानदृष्टिर्निर्जगाम राजकुलात् । अगाच्च सरस्वती तीरम् । तस्यां स्नात्वा पित्रे ददावुदकम् । अपस्नातश्च अनिष्पीडितमौलिरेव परिधाय उद्गमनीयदुकूलवाससी निःश्वासपरो निरातपत्रो निरुत्सारणः,
चरणाभ्यामेव भवनमाजगाम ॥

राजवल्लभास्तु भृत्याः सुहृदः सचिवाश्च तस्मिन्नेवाहनि निर्गत्य प्रियं पुत्र- दारमुत्सृज्य उद्बाष्पैर्बन्धुभिर्वार्यमाणा अपि बहुनृपगुणगणहृतहृदयाः केचिद्वैश्वानरं विविशुः केचिदटवीभुवः शून्या जगृहु:, केचिन्मुनयो बभूवुः ॥
 
 
 
 
अपस्नातः मृतस्नातः । उद्गमनीयं धौतवस्त्रयुगम् ॥