This page has been fully proofread once and needs a second look.

अस्मिन्नेवान्तरे पूषाप्यायुषेव तेजसा व्ययुज्यत । क्रमेण च प्रवृत्तायां संध्यायाम्, नाकपथप्रस्थितपार्थिवप्रत्युद्गतपुरुहूतातपत्र इव पूर्वस्यां दिशि दृश्यमाने चन्द्रमसि, नरेन्द्र: स्वयं समर्पितस्कन्धैर्गृहीत्वा शवशिबिकां सामन्तैः पौरैश्च पुरोहितपुरःसरै: सरितं सरस्वतीं नीत्वा नरपतिसमुचितायां चितायां हुताशसंस्क्रियया यशःशेषतामनीयत ॥

देवोऽपि हर्षः पुञ्जीभूतेन सकलेनेव जीवलोकेन लोकेन राजकुलसंबद्धेना- शेषेण शोकमूकेन परिवृतः, निर्व्यवधानायां धरण्यामुपविष्ट एव तां निशीथिनीं भीमरथीभीमामखिलां सराजको जजागार

अजनि चास्य चेतसि – "ताते दूरीभूते संप्रत्येतावान्खलु जीवलोकः । लोकस्य भग्नाः पन्थानो मनोरथानाम् । खिलीभूतानि भूतिस्थानानि । स्थगितान्यानन्दस्य द्वाराणि । सुप्ता सत्यवादिता । लुप्ता लोकयात्रा । विलीना बाहुशालिता । प्रलीनाप्रियालापिता । समाप्ता समरशौण्डता । ध्वस्ता परगुणप्रीतिः विश्रान्ता विश्वासभूमयः । अपदान्यपदानानि । निरुप- योगाणि, शास्त्राणि । कथावशेषा विशेषज्ञता । ददातु जनो जलाञ्जलिम्
और्जित्याय । प्रतिपद्यतां प्रव्रज्यां प्रजापालता । बध्नातु वैधव्यवेणीं वरमनुष्यता । समाश्रयतु राजश्रीराश्रमपदम् । परिधत्ताःघवले वाससी वसुमती । तपस्यतु तपोवनेषु तेजस्विता । क्व गम्यतां पुनस्तस्य कृते कृतज्ञतया । क्व पुनः प्राप्स्यति तादृशान्
 
 
 

 
अपदानं शुद्धचरितम् पूर्ववृत्तं वा । और्जित्य स्थैर्यम् । तपस्यतु तपः
करोतु ॥