This page has been fully proofread once and needs a second look.

हर्षचरित संग्रहे
 
अस्मिन्नेवान्तरे पूषाप्यायुषेव तेजसा व्ययुज्यत । क्रमेण च
प्रवृत्तायां संध्यायाम्, नाकपथप्रस्थित पार्थिव प्रत्युद्गतपुरुहूतातपत्र
इव पूर्वस्यां दिशि दृश्यमाने चन्द्रमसि, नरेन्द्र: स्वयं समर्पि
तस्कन्धैर्गृहीत्वा शवशिबिकां सामन्तैः पौरैश्च पुरोहितपुरःसरै:
सरितं सरस्वतीं नीत्वा नरपतिसमुचितायां चितायां हुताश-
संस्क्रियया यशःशेषतामनीयत ॥
 
३८
 

देवोऽपि हर्षः पुञ्जीभूतेन सकलेनेव जीवलोकेन लोकेन्द्र
राजकुलसंबद्धेना- शेषेण शोकमूकेन परिवृतः, निर्व्यवधानायां
धरण्यामुपविष्ट एव तां निशीथिनीं भीमरथीभीमामखिलां सरा-
जको जजागार ।॥
 
-
 

अजनि चास्य चेतसि – "ताते दूरीभूते संप्रत्येतावान्ख
लु जीवलोकः । लोकस्य भग्नाः पन्थानो मनोरथानाम् । खिलीभू-
तानि भूतिस्थानानि । स्थगितान्यानन्दस्य द्वाराणि । सुप्ता सत्य-
वादिता । लुप्ता लोकयात्रा । विलीना बाहुशालिता । प्रलीना
प्रियालापिता । समाप्ता समरशौण्डता । ध्वस्ता परगुणप्रीतिः p
विश्रान्ता विश्वासभूमयः । अपदान्यपदानानि । निरुप- योगाणि,
शास्त्राणि । कथावशेषा विशेषज्ञता । ददातु जनो जलाञ्जलिम्

और्जित्याय । प्रतिपद्यतां प्रव्रज्यां प्रजापालता । बन्ध्नातु वैधव्य-
वेणीं वरमनुष्यता । समाश्रयतु राजश्रीराश्रमपदम् । परिधत्ताः
घवले वाससी वसुमती । तपस्यतु तपोवनेषु तेजस्विता ।
क्व गम्यतां पुनस्तस्य कृते कृतज्ञतया । क्व पुनः प्राप्स्यति तादृशान्

 
 
 
अपदानं शुद्धचरितम् पूर्ववृत्तं वा । और्जित्य स्थैर्यम् । तपस्यतु तपः करोतु ॥