This page has been fully proofread once and needs a second look.

स तु ससंभ्रममपनीय चरणयुगलम् अवनमिततनुः उदनमयन्मातरम् । दुर्निवारतां च शुचः समवधार्य, कुलयोषिदुचितां च तामेव श्रेयसीं मन्यमानः क्रियाम्, कृतनिश्चयां च तां ज्ञात्वा तूष्णीमधोमुखोऽभवत् । अभिनन्दति हि स्नेहकातरापि कुलीनता देशकालानुरूपम् ।

देव्यपि यशोवती परिष्वज्य समाघ्राय च शिरसि, निर्गत्य, चरणाभ्यामेव चान्तः पुरात्सरस्वतीतीरं ययौ । तत्र च स्त्रीस्वभावकातरैर्दृष्टिपातैः प्रविकसितरक्तपङ्कजपुञ्जैरिवार्चयित्वा भगवन्तं भानुमन्तमिव मूर्तिरैन्दवी चित्रभानुं प्राविशत् । इतरोऽपि मातृमरणविह्वलो बन्धुवर्गपरिवृतः पितुः पार्श्वं प्रायात् । अपश्यच्च स्वल्पावशेषप्राणवृत्तिं जनयितारम् । आश्लिष्य चास्य पादपद्मौ, अश्रुस्रोतसां संतानं वर्षन्नितरवद्विमुक्तारावश्चिरं रुरोद ॥

राजा तु तम् उपरुध्यमानदृष्टिः अविरतरुदितशब्दाश्रितश्रवण: प्रत्यभिज्ञाय शनैः शनैरवादीत् – "पुत्र, नार्हस्येवं भवितुम् । भवद्विधा न ह्यमहासत्त्वाः । सत्त्ववतां चाग्रणी: सर्वातिशयाश्रितः क्व भवान, क्व च वैक्लब्यम् । कुल प्रदीपोऽसि इति, दिवसकरसदृशतेजसस्ते लघूकरणमिव । गृह्यतां श्रीरिति, स्वयमेवश्रिया गृहीतस्य विपरीतमिव । उह्यतां राज्यभार इति, भुवन-
त्रयभारोचितस्यानुचितनियोग इव । निगृह्यतां चापलमिति, नूतनतरवयसि निगृहीतेन्द्रियस्य निरवकाशेव मे वाणी । निरषशेषतां शत्रवो नेया इति, सहजस्य तेजस एवेयं चिन्ता" इत्येवं वदन्नेव अपुनरुन्मीलनाय निमिमील राजसिंहो लोचने ॥