This page has not been fully proofread.

पञ्चमोच्छवासः ।
 
,
 
स तु ससंभ्रममपनीय चरणयुगलम् अवनमिततनुः
उदनमयन्मातरम् । दुर्निवारतां च शुचः समवधार्य, कुलयोषि-
दुचितां च तामेव श्रेयसीं मन्यमानः क्रियाम्, कृतनिश्चयां च तां
ज्ञात्वा तूष्णीमधोमुखोऽभवत् । अभिनन्दति हि स्नेहकातरापि
कुलीनता देशकालानुरूपम् ।
 
देव्यपि यशोवती परिष्वज्य समाधाय च शिरसि, निर्गत्य,
चरणाभ्यामेव चान्तः पुरात्सरस्वतीतीरं ययौ । तत्र च स्त्रीस्वभा-
वकातरैर्दृष्टिपातैः प्रविकसितरक्तपङ्कजपुरिवार्चयित्वा भगवन्तं
भानुमन्तमिव मूर्तिरैन्दवी चित्रभानुं प्राविशत् । इतरोऽपि मातृ-
-मरणविह्वलो बन्धुवर्गपरिवृतः पितुः पार्श्व प्रायात् । अपश्यच
स्वल्पावशेषप्राणवृत्तिं जनयितारम् । आश्लिष्य चास्य पादपझौ,
· अश्रुस्रोतसां संतानं वर्षन्नितरवद्विमुक्तारावश्चिरं रुरोद ॥
 
www.w
 
राजा तु तम् उपरुध्यमानदृष्टिः अविरतरुदितशब्दाश्रित-
श्रवण: प्रत्यभिज्ञाय शनैः शनैरवादीत् – "पुत्र, नार्हस्येवं भवि-
तुम् । भवद्विधा न ह्यमहासत्त्वाः । सत्त्ववतां चायणी: सर्वाति-
शयाश्रितः क भवान, क्व च वैक्कुत्र्यम् । कुलप्रदीपोऽसि इति,
दिवसकरसदृशतेजसस्ते लघूकरणमिव । गृह्यतां श्रीरिति, स्वयमेव
श्रिया गृहीतस्य विपरीतमिव । उह्यतां राज्यभार इति, भुवन-
त्रयभारोचितस्यानुचितनियोग इव । निगृह्यतां चापलमिति,
नूतनतरवयसि निगृहीतेन्द्रियस्य निरवकाशेव मे वाणी । निरव-
शेषतां शत्रवो नेया इति, सहजस्य तेजस एवेयं चिन्ता" इत्येवं
वदन्नेव अपुनरुन्मीलनाय निमिमील राजसिंहो लोचने ॥