This page has been fully proofread once and needs a second look.

सीमन्तिनी दुःखभागिनी" इति निन्दन्ती बहुविधमात्मानम् मुक्तकण्ठमति- चिरं प्राकृतप्रमदेव प्रारोदीत् ॥

प्रशान्ते च मन्युवेगे सस्नेहमुत्थापयामास सुतम् । हस्तेन चास्य प्ररुदितस्य क्षरन्तीं दृष्टिमुन्ममार्ज । स्वयमपि लोचने प्रमृज्य, पुनः पुनरायततरं निःश्व- स्यावादीत् – "वत्स, नासि न प्रियो निर्गुणो वा परित्यागार्हो वा । स्तन्येनैव सह त्वया पीतं मे हृदयम् । अस्मिंश्च समये प्रभूतप्रभुप्रसादान्तरिता त्वां न पश्यति दृष्टिः । कुलकलत्रमस्मि चारित्रधना धर्मधवले कुले जाता । किं
विस्मृतोऽसि मां समरशतशौण्डस्य पुरुषप्रकाण्डस्य केसरिण इव
केसरिणीं गृहिणीम् । वीरजा वीरजाया वीरजननी च मादृशी पराक्रमक्रीता कथमन्यथा कुर्यात् ? मर्तुमविधवैव वाञ्छामि । न च शक्नोमि दग्धस्य भर्तुरार्यपुत्ररहिता रतिरिव निरर्थकान्प्रलापान्कर्तुम् । प्रत्यग्रदृष्टदारुणदुःख- दग्धायाश्च मे किं धक्ष्यति धूमध्वजः । मरणाच्च मे जीवितमेवास्मिन्समये साहसम् । अतिशीतलः पतिशोकानलादक्षयस्नेहेन्धनादस्मादनलः । कैलासकल्पे प्रवसति जीवितेश्वरे जरतृणकणिकालघीयसि जीविते लोभ
इति क्व घटते । अपि च, जीवन्तीमपि मां नरपतिमरणावधीरणमहा- पातकनीं न स्प्रक्ष्यन्ति, पुत्र, पुत्रराज्यसुखानि । दुःखदग्धानां च भूतिर- मङ्गला चाप्रशस्ता च निरुपयोगा च भवति ।वत्स, विश्वस्तानां यशसा स्थातुमिच्छामि लोके, न वपुषा । वदहमेव त्वां तावत्तात, प्रसादयामि, न पुनर्मनोरथप्रातिकूल्येन कदर्थनीयास्मि" इत्युक्त्वा पादयोरपतत् ॥