This page has been fully proofread once and needs a second look.

रुयन्तीम्, सपत्नीनामपि पादयोः पतन्तीम्, चित्रपुत्रिका अप्यामन्त्रयमाणाम्, पशूनप्यापृच्छमानाम्, भवनपादपानपि परिष्वजमानां मातरं ददर्श ॥

दूरादेव च बाष्पायमाणदृष्टिरभ्यधात्- "अम्ब, त्वमपि मां मन्दपुण्यं परित्यजसि । प्रसीद । निवर्तस्व" इत्यभिधान एव चरणयोर्न्यपतत् । देवी तु यशोवती तथा तिष्ठति पादनिहितशिरसि विमनसि कनीयसि प्रेयसि तनये, स्नेहसंभारेण निर्भराविभूतेनाभिभूयमाना निवारयितुं न शशाक बाष्पोत्प- तनम् । गद्गदिकागृह्यमाणगलविकला च निःसामान्यमन्युतरलीक्रियमाणा-
धरोद्देशा निमील्य नयने नयनाम्भ:सेकप्लवेन प्लावयन्ती विमलौ कपोलौ, संछाद्य अंशुकपटान्तेन किंचिदुत्तानितं वदनेन्दुम्, दूयमानमानसा, स्मरन्ती प्रसवदिवसादारभ्य सकलमङ्कशायिनः शैशवमस्य ज्ञातिगृहगतहृदया "अम्ब तात, न पश्यतं पापां परलोकप्रस्थितां मामेवमतिदुःखिताम्" इति मुहुर्मुहुराक्रन्दन्ती पितरौ,, "हा वत्स, विश्रान्तभागधेयया न दृष्टोऽसि " इति
प्रेष्ठं ज्येष्ठं तनयमसंनिहितं क्रोशन्ती, " अनाथा जाता इति श्वशुरकुलवर्तिनीं दुहितरमनुशोचन्ती, "निष्करुण, किमपराद्धं तवामुना जनेन " इति दैवमुपालभमाना, " नास्ति मत्समा
 
 
 
 
भवाः कौलेयकाः श्वानः । 'कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु' । समानः पतिः
यासां ताः सपत्न्यः । आपृच्छमानाम् "आङि नुप्रच्छयो: " इत्यात्मनेपदम् । बाष्पम् उद्वमन्ती बाष्पायमाणा । " बाष्पोष्मभ्यामुद्वमने " इति
क्यङ् । युवा कनीयान् कनिष्ठः ॥