This page has been fully proofread once and needs a second look.

प्रतीहारी आजगाम। विषण्णलोकलोचनप्रत्युद्गता चोपसृत्य कुट्टिमन्यस्त- हस्तयुगला विज्ञापितवती – "देव, परित्रायस्व । परित्रायस्व । जीवत्येव भर्तरि किमप्यध्यवसितं देव्या " इति ॥

ततस्तदपरमाकर्ण्य च्युत इव सत्त्वेन, द्रुत इव दुःखेन, आचान्त इव चिन्तया, अप्रतिपत्तिरासीत् । आसीञ्चास्य चेतसि " प्रतिपन्नसंज्ञस्य बहुञ्चोऽपि हृदये दुःखाभिषङ्गो निपतन् अश्मनीव लोहप्रहारः कठिने हुतभुजमुत्थापयति, न तु भस्मसात्करोति मे निरनुक्रोशस्य कायम्" इति । उत्थाय च त्वरमाणोऽन्तःपुरमगात् । तत्र च मर्तुमुद्यतानां राजमहिषीणाम् अशृणोद्दूरादेव "कुरङ्गवति, अयमामन्त्रणाञ्जलिः । सानुमति, अयमन्त्यः
प्रणामः । कुवलयवति, एष ते अवसानपरिष्वङ्गः इत्येवं आयानालापान् ॥

दह्यमानश्रवणश्च तैः प्रविशन्नेव, निर्यान्तीं दत्तसर्वस्वापतेयाम्, गृहीतमरण प्रसाधनाम्, जानकीमिव जातवेदसं पत्यु: पुरः प्रवेक्ष्यन्तीम्, प्रत्यप्रस्नानार्द्र- देहतया श्रियमिव भगवतीं सद्यः समुद्रादुत्थिताम्, कुसुम्भबभ्रुणी वाससी दधानाम्, संनिहितप्राणसमं मरणाय चित्तमिव चित्रफलकमविचलं धारयन्तीम्, परिजनेन संतापेन च गृहीतसर्वावयवेन परीताम्, कञ्चुकिभि-
र्दुःखैश्चातिवृद्धैरनुगताम, भूपालवल्लभान्कौलेयकानपि सास्रमालो-
 
 
 
 
कुट्टिमः निबद्धा भूः । सत्त्वं मनोबलम् । अप्रतिपत्तिः इतिकर्तव्यतामूढः । भस्मसात्करोति कृत्स्नं कायं भस्म करोति । "विभाषा साति कार्त्स्न्ये" इति सातिः । अनुक्रोशः दया । पुरः पूर्वभागे, पूर्वकाले च । कुले