This page has been fully proofread once and needs a second look.

हर्षचरितसंग्रहे
 
प्रतीहारी आजगाम
कुट्टिमन्यस्तहस्तयुगला
 
। विषण्णलोकलोचनप्रत्युद्गता चोपसृत्य
कुट्टिमन्यस्त- हस्तयुगला विज्ञापितवती – "देव, परित्रायस्व ।
परित्रायस्व । जीवत्येव भर्तरि किमप्यध्यवसितं देव्या " इति ॥

ततस्तदपरमाकर्ण्य च्युत इव सत्त्वेन, द्रुत इव दुःखेन,
आचान्त इव चिन्तया, अप्रतिपत्तिरासीत् । आसीञ्चास्य चेत-
सि " प्रतिपन्नसंज्ञस्य बहुश्ञ्चोऽपि हृदये दुःखाभिषकोङ्गो निपतन्
अश्मनीव लोहप्रहारः कठिने हुतभुजमुत्थापयति, न तु भस्मसा-
त्करोति मे निरनुक्रोशस्य कायम्" इति । उत्थाय च त्वरमाणोऽ.
न्तःपुरमगात् । तत्र च मर्तुमुद्यतानां राजमहिषीणाम् अशृणोद्दूरा
देव "कुरङ्गवति, अयमामन्त्रणाञ्जलिः । सानुमति, अयमन्त्यः

प्रणामः । कुवलयवति, एष ते अवसानपरिष्वङ्गः इत्येवं
 
www
 
35
 
आयानालापान् ॥
 

दह्यमानश्रवणश्च तैः प्रविशन्नेव, निर्यान्तीं दत्तसर्वस्वा-
पतेयाम्, गृहीतमरण प्रसाधनाम्, जानकीमिव जातवेदसं पत्यु:
पुरः प्रवेक्ष्यन्तीम्, प्रत्यप्रस्नानार्द्र- देहतया श्रियमिव भगवर्तीतीं सद्यः
समुद्रादुत्थिताम्, कुसुम्भबभ्रुणी वाससी दधानाम्, संनिहित-
प्राणसमं मरणाय चित्तमिव चित्रफलकमविचलं धारयन्तीम्,
परिजनेन संतापेन च गृहीतसर्वावयवेन परीताम्, कञ्चुकिभि-

र्
दुःखैधाश्चातिवृद्धैरनुगताम, भूपालवल्लभान्कौलेयकानपि सास्रमालो-
-
 
3
 

 
 
 
 
कुट्टिमः निबद्धा भूः । सत्त्वं मनोबलम् । अप्रतिपत्तिः इतिकर्त
व्यतामूढः । भस्मसात्करोति कृत्स्नं कायं भस्म करोति । "विभाषा साति
कात्यैर्त्स्न्ये" इति सातिः । अनुक्रोशः दया । पुरः पूर्वभागे, पूर्वकाले च । कुले