This page has been fully proofread once and needs a second look.

कपोलेषु कीलिता इव कराः, नासाग्रेषु ग्रथिता इव दृष्टयः, कर्णेषु
उत्कीर्णा इव रुदितध्वनयः, लपनेषु पल्लवितानीव श्वसितानि, हृदयेषु निधानीकृतानीव दुःखान्यभवन् । कथास्वपि नाश्रूयन्तपरिहासाः । स्वप्नेऽपि नागृह्यन्त प्रसाधनानि । वार्तापि नालभ्यतोपभोगानाम् । नामापि नाकीर्त्यत आहारस्य । दिवापि नामुच्यन्त शयनानि ॥

शनैः शनैश्च महापुरुषविनिपातपिशुनाः समं समन्तात्समुद्भवन्भुवने भूयांसो भूपतेरभावाय भयमुत्पादयन्तो भूतानां महोत्पाताः । तथा हि – दोलायमान सकलकुलाचलचक्रषाला पत्या सार्धं गन्तुकामेव प्रथममचलद्धरित्री । परस्परास्फालनवाचालवीचयो विजुघूर्णिरे अर्णवाः । उपसिंहासनम् आकुलं बभ्राम भ्रामरं पटलम् । अटतामन्तःपुरस्योपरि क्षणमपि न शशाम
व्यावक्रोशी वायसानाम् । हर्षोऽपि महोत्पातदूयमानः कथमपि निनाय निशाम् ॥

अन्यस्मिन्नहनि, समीपमस्य राजभवनात्, द्रुतगतिवशविशीर्यमाणालंकार- झांकारिणी, वेत्रलतामुत्सृजन्ती, मुखमरुत्तरङ्गितामुत्तरीयां शुकपटीमाक- र्षन्ती, शोकोचितेन धम्मिल्लरचनारहितेन शिरोरुहसंचयेन चञ्चता प्रावृत- कुचा, कुचताडनपीडया समुच्छूनाताम्रश्यामलतलं मुहुर्मुहुः करकिसलयं धुनाना, "क्व कुमार: ? क्व कुमारः ? " इति प्रतिपुरुषं पृच्छन्ती वेलेति नाम्ना यशोवत्याः
 
 
 
 
व्यावक्रोशी परस्पराह्वानम् । कर्मव्यतीहारे णच् । व्याक्रोशी इति
पाठान्तरम् । धम्मिल्लरचना केशसंयमनम् ॥