This page has been fully proofread once and needs a second look.

दीर्घाध्वगान्प्रजविनश्चोष्ट्रपालकान् प्राहिणोत् । प्रक्षालितवदनश्च परिजनोप- नीतमपि प्रतिकर्म नाग्रहीत् । अग्रतः स्थितानां राजपुत्रयूनां विमनसाम् "रसायनो रसायन : " इति जल्पितमव्यक्तमश्रौषीत् । "भद्राः किं रसायनः" इति पृष्टाश्च ते सर्वे सममेव तूष्णींबभूवुः । भूयो भूयश्चानुबध्यमानाः, " देव, पावकप्रविष्टः" इति दुःखेन कथं कथमप्याचचक्षिरे ॥

तच्च श्रुत्वा प्लुष्ट इवान्तस्तापेन सद्यो विवर्णतामगात् आसीच्चास्य चेतसि – "कामं स्वयं न भवति, न तु श्रावयत्यप्रियं वचनमरतिकरमितर इवाभिजातो जनः । समुचितमेवेदमथवा स्नेहस्य । किमस्य तातो न तातः, किं वाम्बा न जननी, वयं वा न भ्रातरः ? अन्यस्मिन्नपि तावत्स्वामिनि दुर्लभीभवति
भवन्त्यसवो घ्रियमाणा ह्रीहेतवो लोके; किमुत अमृतमयेऽनुजीविनां निर्व्याजबान्धवे अबन्ध्यप्रसादे सुगृहीतनाम्नि ताते । संप्रति सांप्रतमाचरित मनेनात्मानं दहता । पतितः स केवलं दहने । दग्धास्तु वयम् । धन्यः खल्वसावग्रणी: पुण्यभाजाम् । अपुण्यभाक् तु इदमेव राजकुलम् ; कुलपुत्रेण यत्तादृशा वियुक्तम् । अपि च, ममापि कः खल्वेतेषां प्राणानां कार्यातिभारः कृत्यशेषो वा, येन नाद्यापि निष्ठुराः प्रतिष्ठन्ते । को वान्तरायो
हृदयस्य, येन न सहस्रधा दलति" इति । दुःखार्तश्च न जगाम राजसद्म । समुत्ससर्ज च सर्वकार्याणि । शयनीये निपत्य उत्तरीयवाससा सोत्तमाङ्ग- मात्मानमवगुण्ठ्य अतिष्ठत् ॥

इत्थंभूते च देवे हर्षे, राजनि च तदवस्थे सर्वस्य लोकस्य