This page has not been fully proofread.

L
 
हर्षचरितसंग्रहे
 
दीर्घाध्वगान्प्रजविनश्चोष्ट्रपालकान् प्राहिणोत् । प्रक्षालितवदन
परिजनोपनीतमपि प्रतिकर्म नाग्रहीत् । अग्रतः स्थितानां राज
पुत्रयूनां विमनसाम् "रसायनो रसायन : " इति जल्पितमव्यक्त
मश्रौषीत् । "भद्राः किं रसायनः" इति पृष्टाश्च ते सर्वे सममे
तूष्णींबभूवुः । भूयो भूयश्चानुबध्यमानाः,
प्रविष्टः" इति दुःखेन कथं कथमप्याचचक्षिरे ॥
 
66
 
'देव,
 
पावव
 
३२
 
तच्च श्रुत्वा प्लुष्ट इवान्तस्तापेन सद्यो विवर्णतामगात्
आसीच्चास्य चेतसि – "कामं स्वयं न भवति, न तु श्रावयय.
प्रियं वचनमरतिकरमितर इवाभिजातो जनः । समुचितमेवेद-
मथवा स्नेहस्य । किमस्य तातो न तातः, किं वाम्बा न जननी,
वयं वा न भ्रातरः ? अन्यस्मिन्नपि तावत्स्वामिनि दुर्लभीभवति
भवन्त्यसवो प्रियमाणा हीहेतवो लोके; किमुत अमृतमयेऽ-
नुजीविनां निर्व्याजबान्धवे अवन्ध्यप्रसादे सुगृहीतनाम्नि ताते ।
संप्रति सांप्रतमाचरितमनेनात्मानं दहता । पतितः स केवलं
दहने । दग्धास्तु वयम् । धन्यः खल्वसावग्रणी: पुण्यभाजाम् ।
अपुण्यभाक् तु इदमेव राजकुलम् ; कुलपुत्रेण यत्तादृशा वियु
क्तम् । अपि च, ममापि कः खल्वेतेषां प्राणानां कार्यातिभारः
कृत्यशेषो वा, येन नाद्यापि निष्ठुराः प्रतिष्ठन्ते । को वान्तरायो
हृदयस्य, येन न सहस्रधा दलति" इति । दुःखार्तश्च न जगाम
राजसझ । समुत्ससर्ज च सर्वकार्याणि । शयनीये निपत्य
उत्तरीयवाससा सोत्तमाङ्गमात्मानमवगुण्ठ्य अतिष्ठत् ॥
 
इत्थंभूते च देवे हर्षे, राजनि च तदवस्थे सर्वस्य लोकस्य