This page has been fully proofread once and needs a second look.

पञ्चमोच्छवासः ।
 
३१
 
विधेयमधुना" इति विषण्णहृदयः पप्रच्छ । ते तु व्यज्ञपयन्- -
"
" देव, धैर्यमवलम्बस्व । कतिपयैरेव वासरैः पुनः स्वां प्रकृतिमा-
पन्नं स्वस्थं श्रोष्यसि पितरम् " इति
 

 
1
 

तेषां तु भिषजां मध्ये पौनर्वसवो युवा अष्टादशवर्ष-
देशीयः, तस्मिन्नेव राजकुले कुलक्रमागतः, गतः पारमष्टाङ्गस्या-
युर्वेदस्य, भूभुजा सुतनिर्विशेषं लालितः, प्रकृत्यैवातिपटीयस्या
प्रज्ञया यथावद्विज्ञाता व्याधिस्वरूपाणाम्, रसायनो नाम वैद्य- -
कुमारक: सास्रस्तूष्णीमधोमुखोऽभूत् । पृष्टश्च राजसूनुना "देव,
श्वः प्रभाते यथावस्थितमावेदयितास्मि" इत्यब्रवीत् ॥
 

गतेषु च भिषक्षु, क्षतधृतिः क्षपामुखे क्षितिपालसमीपमेव
पुनरारुरोह । तत्र च – "दाहो महान् । आहर हारान् हरिणि ।
'हिमलवैर्लिम्प ललाटं लीलावति । कपोले कलय कुवलयं कला-
वति । समुपनय मृणालानि मालति । का वेला विलासवति,
"नैति निद्रा" इत्येवंप्रायान् पितुरालापान-
नवरतमाकर्णयन, दूय-
मानहृदयो दुःखदीर्घाघां जाग्रदेव निशामनैषीत् ॥
 

सि चावतीर्य चरणाभ्यामेव स्वमन्दिरमाजगाम ।
तत्र च त्वरमाणो भ्रातुरागमनार्थम् उपर्युपरि क्षिप्रपातिनो

 
 
स्वां प्रकृतिम् आपन्नः मान्ध्यरहितः पृथिव्यादिपञ्चभूतलीनदेहश्च ।

"प्रकृतिर्मरणं शरीरिणाम्" इति रघुः । स्वस्थ व्याधिरहितः, स्वर्गस्थश्च ।

स्वः स्वर्गे तिष्ठतीति स्वस्थः । 'खर्परे शरि' इति विसर्गलोपः । श्रोष्यसि -

न तु द्रक्ष्यसि । पुनर्वसोः अपत्यं पुनर्चसुमुनिना प्रोक्तमायुर्वेदमधीते वा पौनर्व-
सवः । अष्टौ शल्य शालाक्य काय चिकित्सा भूविद्या कौमारभृत्य अगद रसाय-
तन्त्र वजीकरणतन्त्ररूपाणि अङ्गानि यस्य सः अष्टाङ्गः ॥