This page has been fully proofread once and needs a second look.

उद्दामदाहज्वरदग्धोऽपि दह्ये खल्वहमनेन आयुष्मदाधिना । निशितमिव शस्त्रं तक्ष्णोति मां त्वदीयस्तनिमा । सुखं च राज्यं च वंशश्च प्राणाश्च त्वयि मे स्थिताः । यथा मम, तथा सर्वासां प्रजानाम् । त्वद्विधानां पीडाः पीडयन्ति सकलमेव भुवनतलम् । नह्यल्पपुण्यभाजां वंशमलंकुर्वन्ति भवादृशाः । फलमस्यनेकजन्मान्तरोपार्जितस्य अकलुषस्य कर्मणः । करतलगतमिव कथयन्ति चतुर्णामध्यर्णवानामाधिपत्यं ते लक्षणानि । त्वजन्मनैव कृतार्थो- ऽस्मि । निरभिलाषोऽस्मि जीवितव्ये । भिषगनुरोधः पाययति मामौषधम् ।
अपि च, सर्वप्रजापुण्यैः सकलभुवनतलपरिपालनार्थम् उत्पत्स्यमानानां भवादृशां जन्मग्रहणोपायः पितरौ । प्रजाभिस्तु बन्धुमन्तो राजानः, न ज्ञातिभिः । तदुत्तिष्ठ । कुरु पुनरेव सर्वाः क्रिया: । कृताहारे च त्वयि अहमपि स्वयमुपयोक्ष्ये पथ्यम्" इति ॥

एवमभिहितस्य चास्य नितरां शोकानल: संदुधुक्षे । क्षणमात्रं च स्थित्वा पित्रा पुनराहारार्थमादिश्यमानो धवलगृहादवततार । चकार च चेतसि – "सामान्योऽपि तावच्छोकः सोच्छ्वासं मरणम्, अभस्मीकरणोऽग्निप्रवेशः, अनुपरतस्यैव नरकवासः । किमुत विशेषाश्रितः । किमत्र करवाणि " इति॥

राजपुरुषेणाधिष्ठितश्च गत्वा स्वधाम, धूममयानिव कृताश्रुपातान् अग्निमया- निव जनितहृदयदाहान् विषमयानिव दत्तमूर्च्छावेगान् कतिचित्कबलान- गृह्णात् ॥

आचामंश्च अगृहीतताम्बूल एवोत्ताम्यता मनसा अस्ताभिलाषिणि सवितरि सर्वानाहूय वैद्यानुपह्वरे " किमस्मिन्नेवंविधे