2023-05-01 13:26:39 by jayusudindra
This page has been fully proofread once and needs a second look.
दृष्ट्वा च अन्तकपुरवर्तिनमेव पितरममन्यत । निराकृत इव चान्तःकरणेन क्षणमासीत् । अवधूतश्च धैर्येण, पावकमयमिव हृदयमुद्रहन्नाविन्दत कर्तव्यम् । पस्पर्श च हृदयेन भियम्, उत्तमाङ्गेन च गाम् ॥
अवनिपतिस्तु दूरादेव दृष्ट्वातिदयितं तनयम्, तदवस्थोऽपिनिर्भरस्नेहा- वर्जितः प्रधावमानो मनसा प्रसार्य भुजौ " एह्येहि " इत्याह्वयन् शरीरार्धेन शयनादुदगात् । ससंभ्रममुपसृतं चैनं विनयावनम्रम् उन्नमय्य बलादुरसि निवेश्य विशन्निव प्रेम्णा निशाकरमण्डलमध्यम्, मज्जन्निवामृतमये महासरसि, अङ्गैरङ्गानि पीडयन् विस्मृतज्वरसंज्वरः सुचिरमालिलिङ्ग । कथं कथमपि चिराद्विमुक्तं विगतनिमेषनिश्चलेन चक्षुषा व्यलोकयत् । पस्पर्श च पुनःपुनर्वेपथुमता पाणितलेन । क्षयक्षामकण्ठश्च कृच्छ्रादिवावा-
दीत् - "- वत्स, कृशोऽसि " इति । भण्डिस्त्वकथयत् – "देव, तृतीयमहः कृताहारस्यास्याद्य " इति ॥
तच्छ्रुत्वा बाष्पवेगनिगृह्यमाणाक्षरं कथं कथमप्यायतं निःश्वस्य उवाच-
"वत्स, जानामि त्वां पितृप्रियम् अतिमृदुहृदयम् । ईदृशेषु विधुरयति धीमतोऽपि धियम् अतिदुर्धरो बान्धवस्नेहः सर्वप्रमाथी । अतो नार्हस्यात्मानं शुचे दातुम् ।