2023-02-19 13:18:31 by ambuda-bot
This page has not been fully proofread.
पञ्चमोच्छ्वासः ।
२९
दनोच्छ्रनमयनया मुहुर्मुहु: "आर्यपुत्र स्वपिषि ?" इति व्याहर--
न्त्या देव्या यशोवत्या शिरसि वक्षसि च स्पृश्यमानं पितर-
मद्राक्षीत् ॥
AB
AN
दृष्ट्वा च अन्तकपुरवर्तिनमेव पितरममन्यत । निराकृत
इव चान्तःकरणेन क्षणमासीत् । अवधूतश्च धैर्येण, पावकमयमिक
हृदयमुद्रहन्नाविन्दत कर्तव्यम् । पस्पर्श च हृदयेन भियम्,
उत्तमाङ्गेन च गाम् ॥
अवनिपतिस्तु दूरादेव दृष्ट्वातिदयितं तनयम्, तदवस्थोऽपि
निर्भरस्नेहावर्जितः प्रधावमानो मनसा प्रसार्य भुजौ " एह्येहि "
इत्याह्वयन् शरीरार्धेन शयनादुद्गात् । ससंभ्रममुपसृतं चैनं विन-
यावनम्रम् उन्नमय्य बलादुरसि निवेश्य विशन्निव प्रेम्णा निशा-
करमण्डलमध्यम्, मज्जन्निवामृतमये महासरसि, अङ्गैरङ्गानि
पीडयन् विस्मृतज्वरसंज्वरः सुचिरमालिलिङ्ग । कथं कथमपि
चिराद्विमुक्तं विगतनिमेषनिश्चलेन चक्षुषा व्यलोकयत् । पस्पर्श च
पुनःपुनर्वेपथुमता पाणितलेन । क्षयक्षामकण्ठश्च कृच्छ्रादिवावा-
दीत् - "
- वत्स, कृशोऽसि " इति । भण्डिस्त्वकथयत् – "देव,
तृतीयमहः कृताहारस्यास्याद्य " इति ॥
तच्छ्रुत्वा बाष्पवेगनिगृह्यमाणाक्षरं कथं कथमप्यायतं
निःश्वस्य उवाच
वत्स, जानामि त्वां पितृप्रियम् अतिमृदु-
हृदयम् । ईदृशेषु विधुरयति धीमतोऽपि धियम् अतिदुर्धरो
बान्धवस्नेहः सर्वप्रमाथी । अतो नार्हस्यात्मानं शुचे दातुम् ।