This page has been fully proofread once and needs a second look.

पञ्चमोच्छ्वासः ।
 
उपलब्ध नरेन्द्रमान्द्यवार्ताविषण्ण इव नष्टतेजसि अधो-

मुखीभवति भगवति भानुमति, भण्डिप्रमुखेण प्रणयिना राजपुत्र-

लोकेन बहुशो विज्ञाप्यमानोऽपि नाहारमकरोत् । वहन्नेव च

निन्ये निशाम्
 

 
अन्यस्मिन्नहनि मध्यंदिने, विगतजयशव्ब्दम्, अस्तमित-

तूर्यनादम् उपसंहृतगीतम्, उत्सारितोत्सम्, अग्रसारितापण-

पण्यम्, अमङ्गलैरिव परिगृहीतम् यातुधानैरिव विध्वस्तम्,

कलिकालेनेव <error>कबलितम्</error> <fix>कवलितम्</fix>, पापपटलैरिव संछादितम्, शून्यमिव

सुप्तमिव मुषितमिव मूर्च्छितमिव स्कन्धावारं समाससाद
 

 
प्रविशन्नेव च विपणिवर्त्मनि कुतूहलाकुलबहुलवाबालकपरि-

वृतम्, ऊर्ध्वयष्टिविष्कम्भवितते वामहस्तवर्तिनि भीषणमहिषाधि-

रूढप्रेतनाथसनाथे चित्रवति पटे परलोकव्यतिकरम् इतरकर-

कलितेन शरकाण्डेन कथयन्तं यमपट्टिकं ददर्श । तेनैव च

गीयमानं लोकमशृणोत्-
,
 
>
 
२७
 
E
 
-
 
-
 
"मातापितृसहस्राणि पुत्रदारशतानि च
 

युगे युगे व्यतीतानि कस्य ते कस्य वा भवान् ॥"

 
इति । तेन चाधिकतरमवदीर्यमाणहृदयः क्रमेण राजद्वारं प्रतिषिद्ध-

सकललोकप्रवेशं ययौ ।
 

 
तुरगादवतीर्णश्च अभ्यन्तरान्निष्क्रामन्तं सुषेणनामानं वैद्य-

कुमारमप्राक्षीत्--"सुपेण, अस्ति तातस्य विशेषः, न वा ?"

इति । सोऽब्रवीत्--"नास्तीदानीम् । यदि भवेत् कुमारं दृष्ट्रावा"

इति । मन्दं मन्दं द्वारपालैः प्रणम्यमानश्च, दीयमानसर्वस्वम्,