This page has not been fully proofread.

पञ्चमोच्छ्वासः ।
 
उपलब्ध नरेन्द्रमान्द्यवार्ताविषण्ण इव नष्टतेजसि अधो-
मुखीभवति भगवति भानुमति, भण्डिप्रमुखेण प्रणयिना राजपुत्र-
लोकेन बहुशो विज्ञाप्यमानोऽपि नाहारमकरोत् । वहन्नेव च
निन्ये निशाम् ॥
 
अन्यस्मिन्नहनि मध्यंदिने, विगतजयशव्दम्, अस्तमित-
तूर्यनादम् उपसंहृतगीतम्, उत्सारितोत्सबम्, अग्रसारितापण-
पण्यम्, अमङ्गलैरिव परिगृहीतम् यातुधानैरिव विध्वस्तम्,
कलिकालेनेव कबलितम्, पापपटलैरिव संछादितम्, शून्यमिव
सुप्तमिव मुषितमिव मूच्छितमिव स्कन्धावारं समाससाद ॥
 
प्रविशन्नेव च विपणिवर्त्मनि कुतूहलाकुलबहुलवालकपरि-
वृतम्, ऊर्ध्वयष्टिविष्कम्भवितते वामहस्तवर्तिनि भीषणमहिषाधि-
रूढप्रेतनाथसनाथे चित्रवति पटे परलोकव्यतिकरम् इतरकर-
कलितेन शरकाण्डेन कथयन्तं यमपट्टिकं ददर्श । तेनैव च
गीयमानं लोकमशृणोत्-
,
 
>
 
२७
 
E
 
-
 
"मातापितृसहस्राणि पुशतानि च ।
 
युगे युगे व्यतीतानि कस्य ते कस्य वा भवान् ॥"
इति । तेन चाधिकतरमवदीर्यमाणहृदयः क्रमेण राजद्वारं प्रतिषिद्ध-
सकललोकप्रवेशं ययौ ।
 
तुरगादवतीर्णश्च अभ्यन्तरान्निष्क्रामन्तं सुषेणनामानं वैद्य-
कुमारमप्राक्षीत् – "सुपेण, अस्ति तातस्य विशेषः, न वा ?"
इति । सोऽब्रवीत् – "नास्तीदानीम् । यदि भवेत् कुमारं दृष्ट्रा"
इति । मन्दं मन्दं द्वारपालैः प्रणम्यमानश्च, दीयमानसर्वस्वम्,