This page has not been fully proofread.

२६
 
हर्षचरितसंग्रहे
 
स्तिमिततारकेण चक्षुषा
चकार क्षणं क्षोणीम् ।
 
समुद्भिद्यमानस्थलकमलिनीवनामिव
 
आरोहति च हरितहये मध्यमहः, भवनमागत्य, वेत्रपट्टिकामधि-
शयानः साशङ्क एव तस्थौ ॥
 
अपगतधृतिः चिन्तावनमितवदनः
 

 
अथ दूरादेव लेखगर्भया चीरचीरिकया रचितमुण्ड-
मालम्, वर्त्मनि शून्यहृदयतया स्खलन्तम्, श्रमातपाभ्याम्
आरोष्यमाणकायकालिमानं कुरङ्गकनामानमायान्तमद्राक्षीत् /
दृष्टा चाभिद्यत हृदयेन ॥
 
कुरङ्गकन्तु कृतप्रणामः समुपसृत्य प्रथममाननलग्नं विषाद-
मुपनिन्ये, पश्चाल्लेखम् । तं च देवो हर्षः स्वयमेवादायावाचयत् ।
" कुरङ्गक, किं मान्द्यं तातस्य" इति चाभ्यधात् । स च "देव,
दाहज्वरो महान्" इत्याचचक्षे । तच्चाकर्ण्य सहसा सहस्रधेवास्य
हृदयं पफाल । कृताचमनश्च जनयितुरायुष्काम:, आत्मपरिबई-
मशेषं ब्राह्मणसादकरोत् । अभुक्त एव उच्चचाल । "दापय वाजिनः
पर्याणम्" इति च पुरःस्थितं शिरःकृपाणं विभ्राणं बभाण
युवानम् । वेपमानहृदयश्च ससंभ्रमप्रधावितपरिवर्धको पनीत मारुह्य
तुरङ्गम् एकाक्येव प्रावर्तत ।
 
IN
 
प्रस्थितस्य चास्य प्रदक्षिणेतरत्प्रयान्तो विनाशमुरस्थितं
राजसिंहस्य हरिणाः प्रकटयांबभूवुः । हृदयेन च पितृस्नेहाहित-
म्रदिम्ना तत्तदुपेक्षमाणः, बहुयोजनसंपिण्डितमध्वान मे के नै वाहा
 
समलङ्घयत् ॥