Proofing

✦

This page has been fully proofread once and needs a second look.

हर्षचरितसंग्रहे
 
दिवमिव सज्योत्स्नः शशी । समुत्ससर्प च वेड़िल्लितारुणशिखा-

पल्लवस्य शिखिनः कुसुमायुध इव रतिद्वितीयो रक्ताशोकस्य समी-

पम् । हुते च हुतभुजि प्रदक्षिणं बभ्राम । पात्यमाने च लाजा-

खलौ नखमयूखधवलिततनुः अदृष्टपूर्ववधूवररूपविस्मयस्मेर इन
व
अदृश्यत विभावसुः ॥
 

 
अत्रान्तरे निवेदनविकारं रुरोद वधूः । उदश्रुविलोचनानां

च बान्धववधूनाम् उदपादि महानाक्रन्दः । परिसमापितवैवाहिक-

क्रियाकलापस्तु जामाता वध्वा समं प्रणनाम श्वशुरौ । प्रविवेश

च द्वारपक्षलिखितरतिपतिदैवतम् मङ्गलप्रदीपैः प्रकाशितम्,

सोपधानेन स्वास्तीर्णेन शयनेन शोभमानम्, शयनशिरोभाग-
•

स्थितेन च निद्राकलशेन राजतेन विराजमानं वासगृहम् ॥
 
,
 

 
स्थित्वा च श्वशुरकुले आनन्दमयानि दश दिनानि, शीले-

नामृतमिव श्वश्रूहृदये वर्षन्, कथं कथमपि विसर्जितो नृपेण

चध्वा सह स्वदेशमगमत् ॥
 

 
॥ इति भट्टबाणविरचिते हर्षचरिते चक्रवर्तिजन्मवर्णनं नाम

चतुर्थ उच्छवासः ॥
 

 
[commentary]
 
शिखा पल्लवा:वाः ज्वालाप्ग्राणि, अग्रपर्णानि च । शिखी अग्निः, वृक्षश्च ।
 
।
श्वश्रूश्वच श्वशुरश्च श्वशुरौ । वासगृहं भोगागारम् ॥