This page has not been fully proofread.

चतुर्थोच्छ्वासः ।
 
२३
 
नचिराच गम्भीरनामा नृपतेः प्रणयी विद्वान द्विजन्मा ग्रह-
वर्माणमुवाच – "तात, त्वां प्राप्य चिरात्खलु राज्यश्रिया घटितौ
तेजोमयौ सोमसूर्यवंशाविव पुष्पभूतिमुखरवंशौ । प्रथममेव
कौस्तुभमणिरिव गुणैः स्थितोऽसि हृदये देवस्य । इदानीं तु
शशीव शिरसा परमेश्वरेणासि वोढव्यो जातः" इति ॥
 
एवं वदत्येव तस्मिन्, नृपमुपसृत्य मौहूर्तिकाः – "देव,
समासीदति लग्नवेला । व्रजतु जामाता कौतुकगृहम्" इत्यूचुः ।
अथ नरेन्द्रेण "उत्तिष्ठ ; गच्छ" इति गदितो महवर्मा प्रवि-
श्यान्तःपुरं जामातृदर्शनकुतूहलिनीनां स्त्रीणां पतितानि लोचन-
सहस्राणि लङ्घयन् आससाद कौतुकगृहद्वारम् । निवारितपरि-
जनश्च प्रविवेश ॥
 
अथ तत्र कतिपयाप्तप्रियसखी स्वजनप्रमदाप्रायपरिवाराम्,
अरुणांशुकावगुण्ठितमुखीम्, चन्दनधवलतनुलताम्, रतिमिव
पुनर्जाताम, अधोमुखीम्, मुहुर्मुहुः कृतमुखोन्नमनप्रयत्नं च सखी -
जनं निर्भर्त्सयन्तीं वधूमपश्यत् ॥
 
परिहासस्मेरमुखीभिश्च नारीभिः कौतुकगृहे यद्यत्कार्यते
जामाता, तत्तत्सर्वमतिपेशलं चकार । कृतपरिणयानुरूपवेषपरि-
ग्रहां गृहीत्वा करे वधूं निर्जगाम । जगाम च नवसुधाधवलाम्,
उपकृशानुनिहितानुपहतहरितकुशां वेदीम् । आरुरोह च तां
 
राज्यश्री: राज्यलक्ष्मीः, प्रभाकरवर्धनसुता च । परमेश्वरः हरः, राजा
च । मुहूर्त विदन्ति मौहूर्तिकाः । कौतुकगृहं प्रतिसरबन्धनगृहम् ॥