This page has been fully proofread once and needs a second look.

हर्षचरितसंग्रहे
 
एवं च तस्मिन्नविधवामय इव भवति राजकुले, मङ्गलमय

इव जायमाने जीवलोके, पटहमय इव कृते अन्तरिक्षे, गण्यमान

इव जनाङ्गुलीभिः, आलोक्यमान इव मार्गध्वजैः, प्रत्युद्गम्यमान

इव मङ्गल्यवाद्यप्रतिशब्दकैः, परिष्वज्यमान इव वधूसखीहृदयै-

राजगाम विवाहदिवसः । प्रातरेव प्रतीहारैः समुत्सारितनिखिला..
-
निबद्धलोकं विविक्तमक्रियत राजकुलम्
 
२२
 

 
अथ प्रतीहारः प्रविश्य नृपसमीपम्, "देव, जामातुरन्ति-

कात्ताम्बूलदायकः पारिजातकनामा संप्राप्तः" इत्यभिधाय, स्वाकारं

युवानमदर्शयत् । राजा तु तम् आगतजामातृनिवेदनागतं ज्ञात्वा

दर्शितादरः कृतसत्कारम् " यामिन्या:याः प्रथमे यामे विवाहकाला-

त्ययकृतो यथा न भवति दोष : षः" इति संदिश्य प्रतीपं प्राहिणोत्
 

 
अथ समवसिते वासरे, स्फुरति संध्यारागे, उज्जिहाने

ज्योतिर्गणे, आजगाम नक्षत्रमालामण्डितमुखीं करिणीमारूढः,,

पुरोधावमानैः पादातैः वाजिनां वृन्दैः करिणां घटाभिश्च आपूरित-

दिग्भागः प्रत्यासन्नलमो ग्नो ग्रहवर्मा
 

 
राजा तु तम् उपद्वारमागतं चरणाभ्यामेव राजचक्रानु-

गम्यमानः ससुतः प्रत्युज्जगाम । अवतीर्णं च तं कृतनमस्का
रं
मन्मथमिव माधवः प्रसारितभुजो गाढमालिलिङ्ग । यथाक्रमं

परिष्वक्तराज्यवर्धनहर्षं च हस्ते गृहीत्वा अभ्यन्तरं निन्ये

स्वनिर्विशेषासनदानादिना चोपचारेणैनमुपचचार
 
0
 

 
[commentary]
 
अनिबद्धः संबन्धरहितः । विविक्तं विजनं पूतं वा । "सा तु नक्षत्रमाला

स्यात्सप्तविंशतिमौक्तिका ।" पदातीनां समूहाः पादातानि । माधव:वः वसन्तः