2023-02-19 13:18:31 by ambuda-bot
This page has not been fully proofread.
हर्षचरितसंग्रहे
एवं च तस्मिन्नविधवामय इव भवति राजकुले, मङ्गलमय
इव जायमाने जीवलोके, पटहमय इव कृते अन्तरिक्षे, गण्यमान
इव जनाङ्गुलीभिः, आलोक्यमान इव मार्गध्वजैः, प्रत्युद्गम्यमान
इव मङ्गल्यवाद्यप्रतिशब्दकैः, परिष्वज्यमान इव वधूसखीहृदयै-
राजगाम विवाहदिवसः । प्रातरेव प्रतीहारैः समुत्सारितनिखिला..
निबद्धलोकं विविक्तमक्रियत राजकुलम् ॥
२२
अथ प्रतीहारः प्रविश्य नृपसमीपम्, "देव, जामातुरन्ति-
कात्ताम्बूलदायकः पारिजातकनामा संप्राप्तः" इत्यभिधाय, स्वाकारं
युवानमदर्शयत् । राजा तु तम् आगतजामातृनिवेदनागतं ज्ञात्वा
दर्शितादरः कृतसत्कारम् " यामिन्या: प्रथमे यामे विवाहकाला-
त्ययकृतो यथा न भवति दोष : " इति संदिश्य प्रतीपं प्राहिणोत् ॥
अथ समवसिते वासरे, स्फुरति संध्यारागे, उज्जिहाने
ज्योतिर्गणे, आजगाम नक्षत्रमालामण्डितमुखीं करिणीमारूढः,,
पुरोधावमानैः पादातैः वाजिनां वृन्दैः करिणां घटाभिश्च आपूरित-
दिग्भागः प्रत्यासन्नलमो ग्रहवर्मा ॥
राजा तु तम् उपद्वारमागतं चरणाभ्यामेव राजचक्रानु-
गम्यमानः ससुतः प्रत्युज्जगाम । अवतीर्णं च तं कृतनमस्कार
मन्मथमिव माधवः प्रसारितभुजो गाढमालिलिङ्ग । यथाक्रमं
परिष्वक्तराज्यवर्धनहर्षं च हस्ते गृहीत्वा अभ्यन्तरं निन्ये ।
स्वनिर्विशेषासनदानादिना चोपचारेणैनमुपचचार ॥
0
अनिबद्धः संबन्धरहितः । विविक्तं विजनं पूतं वा । "सा तु नक्षत्रमाला
स्यात्सप्तविंशतिमौक्तिका ।" पदातीनां समूहाः पादातानि । माधव: वसन्तः ॥