This page has been fully proofread once and needs a second look.

चतुर्थोच्छ्वासः ।
 
कन्यकानाम् । दाने तु प्रमाणमासां पितरः । केवलं कृपाकृतविशेष:

सुदूरेण तनयस्नेहादतिरिष्च्यते दुहितृस्नेहः । यथा यावज्जीवम्

आवयोः आर्तितां न प्रतिपद्यते, तथा आर्यपुत्र एव जानाति "

इति
 
२१
 

 
राजा तु जातनिश्चयो दुहितृदानं प्रति, समाहूय सुतावपि

विदितार्थावकार्षीत् । शोभने च दिवसे ग्रहवर्मणा कन्यां प्रार्थयितुं

प्रेषितस्य पूर्वागतस्यैव प्रधानदूतपुरुषस्य करे सर्वराजकुलसमक्षं

दुहितृदानजलमपातयत्
 

 
जातमुहिदि कृतार्थे च गते तस्मिन्, आसन्नेषु च विवाह-

दिवसेषु, उद्दामदीयमानताम्बूलपटवासकुसुमप्रसाधितसर्वलोकम्,

क्षितिपालैश्च स्वयमाद्धकक्ष्यैः प्रारब्धविविधव्यापारम्, आ

सूर्योदयाच्च प्रविष्टाभिः सतीभिः सुरूपाभिः समन्तात्सीमन्तिनी-

भिर्व्याप्तम्, दुकूलैश्च निश्वासहायै :र्यैः स्पर्शानुमेयैः सर्वतः संछादि-

तम्, पटवितानैर्मण्डपैः स्तम्मैभैश्च समुज्ज्वलम्, रमणीयं च

औत्सुक्यदं च मङ्गल्यं चासीद्राजकुलम्
 
,
 

 
देवी तु यशोवती विवाहोत्सवपर्याकुलहृदया, हृदयेन

भर्तरि, कुतूहलेन जामातरि, स्नेहेन दुहितरि, उपचारेण निम-

न्त्रितस्त्रीषु, आदेशेन परिजने, शरीरेण संचरणे, चक्षुषा कृताकृत-

प्रत्यवेक्षणेषु, आनन्देन महोत्सवे, एकापि बहुधा विभक्तेवाभ-
चत्

वत्
। भूपतिरपि सत्यप्याज्ञासंपादनदक्षे मुखेक्षणपरे परिजने,

समं पुत्राभ्यां दुहितृस्नेहविक्कु वः सर्वं स्वयमकरोत्
 
:
 

 
[commentary]
 
पटवासः गन्धचूर्णम् । मङ्गलम् अर्हति, मङ्गले साधु वा मङ्गल्यम्