This page has not been fully proofread.

चतुर्थोच्छ्वासः ।
 
कन्यकानाम् । दाने तु प्रमाणमासां पितरः । केवलं कृपाकृतविशेष:
सुदूरेण तनयस्नेहादतिरिष्यते दुहितृस्नेहः । यथा यावज्जीवम्
आवयोः आर्तितां न प्रतिपद्यते, तथा आर्यपुत्र एव जानाति "
इति ॥
 
२१
 
राजा तु जातनिश्चयो दुहितृदानं प्रति, समाहूय सुतावपि
विदितार्थावकार्षीत् । शोभने च दिवसे ग्रहवर्मणा कन्यां प्रार्थयितुं
प्रेषितस्य पूर्वागतस्यैव प्रधानदूतपुरुषस्य करे सर्वराजकुलसमक्षं
दुहितदानजलमपातयत् ॥
 
जातमुहि कृतार्थे च गते तस्मिन्, आसन्नेषु च विवाह-
दिवसेषु, उद्दामदीयमानताम्बूलपटवासकुसुमप्रसाधितसर्वलोकम्,
क्षितिपालैश्च स्वयमावद्धकक्ष्यैः प्रारब्धविविधव्यापारम्, आ
सूर्योदयाच्च प्रविष्टाभिः सतीभिः सुरूपाभिः समन्तात्सीमन्तिनी-
भिर्व्याप्तम्, दुकूलैश्च निश्वासहायै : स्पर्शानुमेयैः सर्वतः संछादि-
तम्, पटवितानैर्मण्डपैः स्तम्मैश्च समुज्ज्वलम्, रमणीयं च
औत्सुक्यदं च मङ्गल्यं चासीद्राजकुलम् ॥
 
,
 
देवी तु यशोवती विवाहोत्सवपर्याकुलहृदया, हृदयेन
• भर्तरि, कुतूहलेन जामातरि, स्नेहेन दुहितरि, उपचारेण निम-
न्त्रितस्त्रीषु, आदेशेन परिजने, शरीरेण संचरणे, चक्षुषा कृताकृत-
प्रत्यवेक्षणेषु, आनन्देन महोत्सवे, एकापि बहुधा विभक्तेवाभ-
चत् । भूपतिरपि सत्यप्याज्ञासंपादनदक्षे मुखेक्षणपरे परिजने,
समं पुत्राभ्यां दुहितृस्नेहविक्कु वः सर्वं स्वयमकरोत् ॥
 
:
 
पटवासः गन्धचूर्णम् । मङ्गलम् अर्हति, मङ्गले साधु वा मङ्गल्यम् ॥