This page has been fully proofread once and needs a second look.

हर्षचरितसंग्रहे
 
उच्छासनिःश्वासाविव नक्तंदिवमभिमुखस्थितौ, भुजाविव सतत-

पार्श्ववर्तनतिनौ कुमारयोस्तौ बभूवतुः
 
२०
 

 
अथ राज्यश्रीरपि नृत्यगीतादिषु विदग्धासु सखीषु सक
-
लासु कलासु च प्रतिदिनमुपचीयमानपरिचया, शनैः शनैरवर्धत

परिमितैरेव दिवसैर्यौवनमारुरोह । निपेतुरेकस्यां तस्यां भूभुजां

सर्वेषां दृष्टयः । दूतप्रेषणादिभिञ्च तां ययाचिरे राजानः
 

 

 
कदाचित्तु राजा अन्तःपुरप्रासादस्थितो महादेवीं जगाद-
-
" देवि, तरुणीभूता वत्सा राज्यश्रीः । यौनारम्भ एव च कन्य-

कानामिन्धनीभवन्ति पितरः संतापानलस्य । केनापि कृताधर्म्या

नाभिमता मे स्थितिरियम्--यत् अङ्गसंभूतानि अङ्कलालितानि

अपरित्याज्यानि अपत्यकानि अकाण्ड एव अगत्या असंस्तुतै-
नि

र्नी
यन्ते । को हि नाम सहते विरहमपत्यानाम् । किं क्रियते

तथापि गृहगतैरनुगन्तव्या एव लोकवृत्तयः । प्रायेण च सत्स्व --
-
प्यन्येषु वरगुणेष्वभिजनमेवानुरुध्यन्ते धीमन्तः । धरणीधराणां च

मूर्ध्नि स्थितो माहेश्वरो मौखरिवंशः । तत्रापि तिलकभूतस्य अव-

न्तिवर्मणः सूनुरग्रजो ग्रहवर्मा नाम ग्रहपतिरिव गां गतः पितु-

रन्यूनो गुणैरेनां प्रार्थयते । यदि भवत्या अपि मतिरनुमन्यते,

ततस्तस्मै दातुमिच्छामि
 

 
"
 
इत्युक्तवति भर्तरि, महादेवी प्रत्युवाच--" आर्यपुत्र,

संवर्धनमात्रोपयोगिन्यो धात्रीनिर्विशेषा भवन्ति खलु मातरः-

 
[commentary]
 
धर्मात् अनपता धर्म्या, न धर्म्या अधर्म्या । अकाण्डे अनवसरे सहसेति
यावत्

यावत्
। संस्तुताः परिचिताः । अभिजनः कुलम् । गां भूमिम्