This page has not been fully proofread.

हर्षचरितसंग्रहे
 
उच्छासनिःश्वासाविव नक्तंदिवमभिमुखस्थितौ, भुजाविव सतत-
पार्श्ववर्तनकुमारयोस्तौ बभूवतुः ॥
 
२०
 
अथ राज्यश्रीरपि नृत्यगीतादिषु विदग्धासु सखीषु सक
लासु कलासु च प्रतिदिनमुपचीयमानपरिचया, शनैः शनैरवर्धत ।
परिमितैरेव दिवसैर्यौवनमारुरोह । निपेतुरेकस्यां तस्यां भूभुजां
सर्वेषां दृष्टयः । दूतप्रेषणादिभिञ्च तां ययाचिरे राजानः ॥
 

 
कदाचित्तु राजा अन्तःपुरप्रासादस्थितो महादेवीं जगाद-
" देवि, तरुणीभूता वत्सा राज्यश्रीः । यौबनारम्भ एव च कन्य-
कानामिन्धनीभवन्ति पितरः संतापानलस्य । केनापि कृताधर्म्या
नाभिमता मे स्थितिरियम् – यत् अङ्गसंभूतानि अङ्कलालितानि
अपरित्याज्यानि अपत्यकानि अकाण्ड एव अगत्या असंस्तुतै-
नियन्ते । कोहि नाम सहते विरहमपत्यानाम् । किं क्रियते ।
तथापि गृहगतैरनुगन्तव्या एव लोकवृत्तयः । प्रायेण च सत्स्व --
प्यन्येषु वरगुणेष्वभिजनमेवानुरुध्यन्ते धीमन्तः । धरणीधराणां च
मूर्ध्नि स्थितो माहेश्वरो मौखरिवंशः । तत्रापि तिलकभूतस्य अव-
न्तिवर्मणः सूनुरग्रजो ग्रहवर्मा नाम ग्रहपतिरिव गां गतः पितु-
रन्यूनो गुणैरेनां प्रार्थयते । यदि भवत्या अपि मतिरनुमन्यते,
ततस्तस्मै दातुमिच्छामि ॥
 

 
इत्युक्तवति भर्तरि, महादेवी प्रत्युवाच –" आर्यपुत्र,
संवर्धनमात्रोपयोगिन्यो धात्रीनिर्विशेषा भवन्ति खलु मातरः-
धर्मात् अनपता धर्म्या, न धर्म्या अधर्म्या । अकाण्डे अनवसरे सहसेति
यावत् । संस्तुताः परिचिताः । अभिजनः कुलम् । गां भूमिम् ॥