This page has been fully proofread once and needs a second look.

चतुर्थोच्छ्वासः ।
 
१९
 
भि
मिवानुप्रविश्य आत्मीयां प्रकृतितिं संक्रामयन्ति पल्लवकाः । स्वप्ना

"इव मिथ्यादर्शनैरसद्बुद्धिं जनयन्ति विप्रलम्भकाः । अतः सर्वैर्दो-
-

षाभिषङ्गैरसंगतौ, बहुधा उपधाभिः परीक्षितौ, शुची विनीतौ

विक्रान्तौ अभिरूपौ मालवराजपुत्रौ कुमारगुप्तमाधवगुप्तौ अस्मा-

भिर्भवतोरनुचरत्वार्थमिमौ निर्दिष्टौ । अनयोरुपरि भवद्भ्यामपि

नान्यपरिजन समवृत्तिभ्यां भवितव्यम्" इत्युक्त्वा तयोराह्वानाय

प्रतीहारमादिदेश
 

 
न चिरात् द्वारदेशनिहितलोचनौ राज्यवर्धनहर्षोषौ, प्रती-

हारेण सह प्रविशन्तम् अग्रतो ज्येष्ठम् अष्टादशवर्षवयसं नात्युच्चं

नातिखर्वं तेजस्विनमपि शीलेनाह्लादकेन सवितारमिव शशिना-

न्तर्गतेन विराजमानं कुमारगुप्तम् पृष्ठतस्तस्य कनीयांसम् अति-

प्रांशुतया गौरतया च मनःशिलाशैलमिव संचरन्तं माधवगुप्तं
"

च दद्ददृशतुः
 
"
 
66
 

 
प्रविश्य च तौ दूरादेव नमश्चक्रतुः । स्निग्धनरेन्द्रदृष्टि-

निर्दिष्टाम् उचितां भूमिं भेजाते । मुहूर्तं च स्थित्वा भूपतिरादिदेश

तौ --" अद्यप्रभृति भवद्भ्यां कुमारावनुवर्तनीयौ " इति
। "यथा<error>-<error> <fix></fix>
ज्ञापयति देव: वः" इति राज्यवर्धनहर्षो प्रणेमतुः, तौ च पितरम्

ततश्चारभ्य क्षणमपि निमेषोन्मेषाविव चक्षुर्गोचरात् अनपयान्तौ,
 
यथा-
NOVA
 

 
पल्
लवकाः कोमलानि किसलयानि फु, कुत्सिता विटाश्च। मिथ्यादर्शनम्

अलीकवस्तुप्रदर्शनम् असच्छास्त्रं च । अभिषङ्गः पराभवः, आक्रान्तिरिति

यावत् । संपर्क इत्यन्ये । उपधा राज्ञा धर्मार्थकामभयैरमात्यादेः परीक्षणम्

अभिरूपौ सुन्दरौ, बुधौ वा