This page has not been fully proofread.

चतुर्थोच्छ्वासः ।
 
१९
 
भिवानुप्रविश्य आत्मीयां प्रकृति संक्रामयन्ति पल्लवकाः । स्वप्ना
"इव मिथ्यादर्शनैरसद्बुद्धिं जनयन्ति विप्रलम्भकाः । अतः सर्वैर्दो-
-
•षाभिषङ्गैरसंगतौ, बहुधा उपधाभिः परीक्षितौ शुची विनीतौ
विक्रान्तौ अभिरूपौ मालवराजपुत्रौ कुमारगुप्तमाधवगुप्तौ अस्मा-
भिर्भवतोरनुचरत्वार्थमिमौ निर्दिष्टौ । अनयोरुपरि भवद्भ्यामपि
नान्यपरिजन समवृत्तिभ्यां भवितव्यम्" इत्युक्त्वा तयोराह्वानाय
प्रतीहारमादिदेश ॥
 
न चिरात् द्वारदेशनिहितलोचनौ राज्यवर्धनहर्षो, प्रती-
हारेण सह प्रविशन्तम् अग्रतो ज्येष्ठम् अष्टादशवर्षवयसं नात्युचं
नातिखर्व तेजस्विनमपि शीलेनाह्लादकेन सवितारमिव शशिना-
•न्तर्गतेन विराजमानं कुमारगुप्तम् पृष्ठतस्तस्य कनीयांसम् अति-
प्रांशुतया गौरतया च मनःशिलाशैलमिव संचरन्तं माधवगुप्तं
"च दद्दशतुः ॥
 
"
 
66
 
प्रविश्य च तौ दूरादेव नमश्चऋतुः । स्निग्धनरेन्द्रदृष्टि-
निर्दिष्टाम् उचितां भूमिं भेजाते । मुहूर्त च स्थित्वा भूपतिरादिदेश
तौ — " अद्यप्रभृति भवद्भ्यां कुमारावनुवर्तनीयौ " इति ।
ज्ञापयति देव: " इति राज्यवर्धनहर्षो प्रणेमतुः, तौ च पितरम् ।
ततश्चारभ्य क्षणमपि निमेषोन्मेषाविव चक्षुर्गोचरात् अनपयान्तौ,
 
यथा-
NOVA
 
पलवकाः कोमलानि किसलयानि फुत्सिता विटाच । मिथ्यादर्शनम्
अलीकवस्तुप्रदर्शनम् असच्छास्त्रं च । अभिषङ्गः पराभवः, आक्रान्तिरिति
यावत् । संपर्क इत्यन्ये । उपधा राज्ञा धर्मार्थकामभयैरमात्यादेः परीक्षणम् ।
अभिरूपौ सुन्दरौ, बुधौ वा ॥