2023-02-26 16:43:57 by Narayan
This page has been fully proofread once and needs a second look.
पीनप्रकोष्ठप्रतिष्ठित
वीर्य
पुत्रावपि सकलजीवलोकहृदयानन्ददायिनौ तेन प्रकृतिदक्षिणेन
मधुमाधवाविव मलयमारुतेन उपेतौ नितरां रेजतुः
१८
क्रमेण च अपरेणेव भ्रात्रा प्रजानन्देन सह वर्धमानौ
चौ
यौवनमवतेरतुः
विकटोरःकवाटौ प्रांशुसालाभिरामौ महानगरसंनिवेशाविव
सर्वलोकाश्रयक्षमौ बभूवतुः
अथ चन्द्रसूर्याविव ज्योत्स्नायशःप्रतापाक्रान्तभुवनौ,
इन्द्रोपेन्द्राविव नागेन्द्रगतौ, राज्यवर्धन इति हर्ष इति सर्वस्यामेव
पृथिव्याम् आविर्भूतशब्दप्रादुर्भावौ स्वल्पीयसैव कालेन द्वीपान्त-
रेष्वपि प्रकाशतां जग्मतुः
एकदा च तावाहूय, भुक्तवान् अभ्यन्तरगतः पिता सस्नेह-
मवादीत्
[commentary]
अष्टौ वर्षाणि यस्य सः अष्टवर्ष:, ईषदसमाप्तः अष्टवर्षः अष्टवर्षदेशीयः
पुष्पलोहो नाम रत्नविशेषः
त्यश्च
योज्यानि
च
च। प्रकृष्टः कोष्ठः गृहमध्यमिति वा
यशः, यश इव ज्योत्स्ना च
विष्णुः
आपः येषु तानि द्वीपानि