2023-02-19 13:18:30 by ambuda-bot
This page has not been fully proofread.
हर्षचरितसंग्रहे
अस्मिन्नेव तु काले यशोवत्या भ्राता, सुतमष्टवर्षदेशीयं
पीनप्रकोष्ठप्रतिष्ठित पुष्पलोहवलयं शैशवेऽपि सावष्टम्भं बीजमिव
वीर्य द्रुमस्य भण्डिनामानम् अनुचरं कुमारयोरर्पितवान् । राज-
पुत्रावपि सकलजीवलोकहृदयानन्ददायिनौ तेन प्रकृतिदक्षिणेन
मधुमाधवाविव मलयमारुतेन उपेतौ नितरां रेजतुः ॥
१८
क्रमेण च अपरेणेव भ्रात्रा प्रजानन्देन सह वर्धमानौ
चौवनमवतेरतुः । स्थिरोरुस्तम्भौ पृथुप्रकोष्ठौ दीर्घभुजार्गलो
विकटोरःकवाटौ प्रांशुसालाभिरामौ महानगरसंनिवेशाविव
सर्वलोकाश्रयक्षमौ बभूवतुः ॥
अथ चन्द्रसूर्याविव ज्योत्स्नायशःप्रतापाक्रान्तभुवनौ,
इन्द्रोपेन्द्राविव नागेन्द्रगतौ, राज्यवर्धन इति हर्ष इति सर्वस्यामेव
पृथिव्याम् आविर्भूतशब्दप्रादुर्भावौ स्वल्पीयसैव कालेन द्वीपान्त-
रेष्वपि प्रकाशतां जग्मतुः ॥
एकदा च तावाहूय, भुक्तवान् अभ्यन्तरगतः पिता सस्नेह-
मवादीत् —"वत्सौ, प्रथमं राज्याङ्गं दुर्लभाः सद्धृत्याः । दर्पण-
अष्टौ वर्षाणि यस्य सः अष्टवर्ष:, ईषदसमाप्तः अष्टवर्षः अष्टवर्षदेशीयः ।
पुष्पलोहो नाम रत्नविशेषः । अवष्टम्भो गर्वः । दक्षिण अनुकूलः, दाक्षिणा-
त्यश्च । स्थिरोरुस्तम्भावित्यादीनि विशेषणानि समासभेदाश्रयणेनोभयत्रापि
योज्यानि । ऊरू सक्थिनी उरवः बृहन्तः । प्रकोष्ठ कूर्पराधोभागः, कक्ष्या
च । प्रकृष्टः कोष्ठः गृहमध्यमिति वा । सालः वृक्षविशेषः, प्राकारच । ज्योत्स्नावत्
यशः, यश इव ज्योत्स्ना च । प्रतापः कोशदण्डर्ज तेज, आतपश्च । उपेन्द्रः
विष्णुः । नागः गजः, सर्पश्च । गतं गमनम्, गतः प्राप्तश्च । द्विर्गताः
आपः येषु तानि द्वीपानि ॥