This page has been fully proofread once and needs a second look.

चतुर्थोच्छ्वासः ।
 
व्यतीते प्रदोषसमये समारुरुक्षति क्षपां यौवने, सहसैवान्तः पुरे

समुदपादि कोलाहलः स्त्रीजनस्य । निर्गत्य च संभ्रमं स्वयमेव

यशोवत्या हृदयनिर्विशेषा धात्र्याः सुता सुयात्रेति नाम्ना राज्ञः

पादयोर्निपत्य "देव, दिष्ट्या वर्धसे द्वितीयसुतजन्मना" इति

व्याहरन्ती पूर्णपात्रं जहार
 

 

 
अत्रान्तरे स्वयमेवानाध्माता अपि तारमधुरं शङ्खा

विरेसुः । अताडितोऽपि जुगुञ्ज अभिषेकदुन्दुभिः । अनाहतान्यपि

मङ्गलतूर्याणि रेणुः । यज्वनां मन्दिरेषु प्रजज्वलुरनिन्धना

वैतानवह्नयः
 

 
तत्क्षण एव च शुक्लवाससो ब्रह्ममुखाः समुपतस्थिरे द्विजा-

तयः । साक्षाद्धर्म इव शान्त्युदकफलहस्तस्तस्थौ पुरः पुरोधाः

प्रावर्तत च विगतराजकुलस्थितिः समस्वामिपरिजनो निर्विशेष-

बालवृद्धो दुर्जेयमत्तामत्तप्रविभागः पुत्रजन्मोत्सवो महान्
 

 
एवं च वृत्ते तस्मिन्महोत्सवे, शनैः शनैः पुनरप्यतिक्रामति

काले, धात्रीकराङ्गुलिलमेग्ने पञ्चषाणि पदानि प्रयच्छति हर्षे, षष्ठं

वर्षमवतरति च राज्यवर्धने, देवी यशोवती गर्भेण अधत्त

नारायणमूर्तिरिव वसुधां देवीं राज्यश्रियम् । पूर्णेषु च प्रसव-

दिवसेषु चन्द्रलेखामिव प्रतिपत्, गौरीमिव मेना प्रसूतवती

दुहितरम्
 

 
[commentary]
 
समुदपादि समुत्पन्नः । धात्री उपमाता । "हर्षादुत्सवकाले यदलंका-

राम्बरादिकम् । आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ॥ " पञ्च वा षड्डा
 
वा
पञ्चषाणि ॥
 
2
 
W