This page has not been fully proofread.

चतुर्थोच्छ्वासः ।
 
व्यतीते प्रदोषसमये समारुरुक्षति क्षपां यौवने, सहसैवान्तः पुरे
समुदपादि कोलाहलः स्त्रीजनस्य । निर्गत्य च संभ्रमं स्वयमेव
यशोवत्या हृदयनिर्विशेषा धात्र्याः सुता सुयात्रेति नाम्ना राज्ञः
पादयोर्निपत्य "देव, दिष्ट्या वर्धसे द्वितीयसुतजन्मना" इति
व्याहरन्ती पूर्णपात्रं जहार ॥
 

 
अत्रान्तरे स्वयमेवानाध्माता अपि तारमधुरं शङ्खा
विरेसुः । अताडितोऽपि जुगुञ्ज अभिषेकदुन्दुभिः । अनाहतान्यपि
मङ्गलतूर्याणि रेणुः । यज्वनां मन्दिरेषु प्रजज्वलुरनिन्धना
वैतानवह्नयः ॥
 
तत्क्षण एव च शुक्लवाससो ब्रह्ममुखाः समुपतस्थिरे द्विजा-
तयः । साक्षाद्धर्म इव शान्त्युदकफलहस्तस्तस्थौ पुरः पुरोधाः ।
प्रावर्तत च विगतराजकुलस्थितिः समस्वामिपरिजनो निर्विशेष-
बालवृद्धो दुर्जेयमत्तामत्तप्रविभागः पुत्रजन्मोत्सवो महान् ॥
 
एवं च वृत्ते तस्मिन्महोत्सवे, शनैः शनैः पुनरप्यतिक्रामति
काले, धात्रीकराङ्गुलिलमे पञ्चषाणि पदानि प्रयच्छति हर्षे, षष्ठं
वर्षमवतरति च राज्यवर्धने, देवी यशोवती गर्भेण अधत्त
नारायणमूर्तिरिव वसुधां देवीं राज्यश्रियम् । पूर्णेषु च प्रसव-
दिवसेषु चन्द्रलेखामिव प्रतिपत्, गौरीमिव मेना प्रसूतवती
दुहितरम् ॥
 
समुदपादि समुत्पन्नः । धात्री उपमाता । "हर्षादुत्सवकाले यदलंका-
राम्बरादिकम् । आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ॥ " पञ्च वा षड्डा
 
पञ्चषाणि ॥
 
2
 
W