2023-02-19 13:18:29 by ambuda-bot
This page has not been fully proofread.
हर्षचरितसंग्रहे
नरपतिस्तु त तच्छ्रुत्वा प्रीयमाणेन अन्तःकरणेन तामवा-
दीत् - "देवि, मुदोऽवसरे विषीदसि । समृद्धास्ते गुरुजनाशिषः ।
पूर्णा नो मनोरथाः । परिगृहीतासि कुलदेवताभिः । प्रसन्नस्ते
भगवान् अंशुमाली । न चिरेणैव अतिगुणवदपत्यत्रयलाभेन
आनन्दयिष्यति भवतीम्" इति । अवतीर्य च यथाक्रियमाणाः
क्रियाश्चकार । यशोवत्यपि तुतोष तेन पत्युर्भाषितेन ॥
ततः समतिक्रान्ते कस्मिंश्चितकालांशे, देव्यां च यशोवत्यां
देवो राज्यवर्धनः प्रथममेव संबभूव गर्भे । गर्भस्थितस्यैव च
यस्य यशसेव पाण्डुतामादत्त जननी । गुणगौरवक्लान्तेव गात्र-
मुद्रोढुं न शशाक । उदरे तूनयेन हृदये च भर्त्रा तिष्ठता
द्विगुणितामिव लक्ष्मीमुवाह ॥
4
अवतीर्णे च दशमे मासि असूत देवं राज्यवर्धनम् ।
मासमेकं दिवसमिव महोत्सवमकरोन्नरपतिः ॥
अथान्यस्मिन्नतिक्रान्ते कस्मिंश्चितकाले, नभसि, देव्या
देवक्या इव चक्रपाणिर्यशोवत्या हृदये गर्भे च सममेव संबभूव
हर्ष: । चतुर्णामपि महार्णवानाम् एकीकृतेनाम्भसा स्नातुमस्या
वाञ्छा बभूव । संनिहितेष्वपि मणिदर्पणेषु, मुखमुत्खाते खड्ग..
पट्टे वीक्षितुं व्यसनमासीत् । पञ्जरकेसरिषु चक्षुररमत ॥
ततश्च प्राप्ते ज्येष्ठामूलीये मासि बहुलासु बहुलपक्षद्वादश्यां
नभसि श्रावणमासे । व्यसनम् आसक्तिः । ज्येष्ठामूलीये ज्यैष्ठे मासि ।
" ज्येष्ठामूलीयमिच्छन्ति मासमाषाढ पूर्वजम् ।" बहुलाः कृत्तिकाः । बहुलपक्षः
कृष्णपक्षः ॥