This page has been fully proofread once and needs a second look.

चतुर्थोच्छवासः ।
 
प्रत्युषसि मध्यंदिने दिनान्ते च प्रयतेन मनसा मन्त्रमादित्य-

हृदयम्
 

 
भक्तजनानुरोधविधेयानि तु भवन्ति देवतानां मनांसि

स राजा कदाचिद्ग्रीष्मसमये हर्म्यस्य पृष्ठे सुष्वाप । पार्श्वे

चास्य द्वितीयशयने देवी यशोवती शिश्ये । परिणतप्रायायां तु

श्यामायाम्, देवी यशोवती सहसैव "आर्यपुत्र, परित्रायस्व

परित्रायस्व" इति भाषमाणा उदतिष्ठत्
 

 
अथ तेन ध्वनिना दग्ध इव श्रवणयोः एकपद एव निद्रां

तत्याज राजा । निद्रया कोपेन चातिलोहिताभ्यां लोचनाभ्यां

पाटलयपर्यन्तान् आशानाम्, "देवि, न भेतव्यम् न भेतव्यम्"

इत्यभिधानो वेगेनोत्पपात । सर्वासु च दिक्षु विक्षिप्तचक्षुर्यदा

नाद्राक्षीत्किकिंचिदपि, तदा पप्रच्छ तां भयकारणम् ॥
 

 
अथ सा समभाषत--"आर्यपुत्र, जानामि स्वप्ने--भग-
स्

वतः सवितुर्मण्डलान्निर्गत्य द्वौ कुमारकोकौ तेजोमयौ गृहीतशस्त्रौ

रुधिरे तोस्नातौ, कन्ययैकया च सुषुम्णरश्मिनिर्गतया अनुगम्य-

मानौ क्षितितलमवतीर्णौ । तौ च मे विलपन्त्याः शस्त्रेणोदरं

विदार्य प्रवेष्टुमारब्धौ । प्रतिबुद्धास्मि चार्यपुत्रं विक्रोशन्ती

वेपमानहृदया" इति
 

 
एतस्मिन्नेव च कालक्रमे प्रथयन्निव स्त्रप्रवप्नफलम् उपतोरणं

रराण प्रभातशङ्खः । भाविनीं भूतिमिवाभिदधाना दध्वनुरमन्
 
दं
 
दुन्दुभयः । जय जयेति प्रबोधमङ्गलपाठकाना मुञ्च्चैर्वाचोऽश्रयन्त रूयन्त